Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 20
________________ ४३२ तत्त्वार्थवार्तिके [५१ अस्तु वाऽविरोधात् । ४ । अथवा अस्तु भिन्नाधिकरणा वृत्तिः। कुतः१ अविरोधात् । यस्माजीवोऽपि कायः पञ्चास्तिकायोपदेशात् अतस्तनिवृत्त्यर्थोऽत्राजीवशब्दप्रयोगः । अजीवस्य कायो न जीवस्येति । किञ्च, कथञ्चिद्भेदोपपत्तेः। ५। केनचित्प्रकारेण संज्ञालक्षणप्रयोजनादिना भेद उपपद्यते । यथा ५ सुवर्णस्याङगुलीयकमित्यत्र सुवर्ण सामान्यं तद्विशेषोऽङ्गुलीयकं तयोः सामान्यविशेषयोः संज्ञालक्षणादिभिः कथञ्चिन्नानात्वम् । यदि सर्वथैकत्वं स्यात् ; सुवर्णसामान्यस्याङ्गुलीयकवत् कुण्डलादिषु वृत्तिर्न स्यात् । सुवर्णसामान्यवद्वा अङ्गुलीयकत्वस्य कुण्डलादिषु वृत्तिः स्यात् । त एवाऽन्यनिवृत्त्यर्थः प्रयोगो युक्तः, सुवर्णस्येदमङगुलीयकंन रूप्यादेरिति । यदि सर्वथैकत्वं स्यात; व्यपदेश एव न स्यात् । तथा अजीवानां काया इत्यत्रापि कायशब्दः प्रदेशवाची। प्रदेशाश्च धो१० दीनां वक्ष्यन्ते । ते च तेभ्यः संज्ञालक्षणादिभिः कथञ्चिद्भिन्नाः। अन्यथा ऐकान्तिकैकत्वे धर्मा दीनामेकत्ववत् प्रदेशानामप्येकत्वं स्यात् , प्रदेशानां बहुत्ववत् धर्मादीनां बहुत्वं प्रसज्येत । तत एव अन्यनिवृत्त्यर्थः प्रयोगो युक्तः अजीवानां काया न जीवस्येति । यदि सर्वथैकत्वं स्यात्; व्यपदेश एव न स्यात् । ततो भेदोपपत्तः युक्ता भिन्नाधिकरणा वृत्तिः। ननु चाभेदेऽपि लोके व्यपदेशो - दृष्टः यथा शिलापुत्रकस्य शरीरं राहोः शिर इति । न हि शिलापुत्रकादन्यच्छरीरमस्ति, नापि १५ राहोरन्यच्छिरः, शिरोमात्रत्वादिति । तत्राप्यस्ति भेदः । कुतः ? शक्तितः । योऽनेकक्रियानिष्पादन शक्तिभेदेन भिन्नरूपः शिलापुत्रकः तस्येदं शरीरं एकक्रियाविषयमिति शब्दप्रकस्पिताद् बुद्धिभेदाद्वा कथञ्चित्पृथक्त्वमध्यवसेयम् । अतश्चैतदेवं तदन्यनिवृत्त्यर्थं विशेषणम् उपादीयते-शिलापुत्रकस्येदं शरीरं न मनुष्यादेः, राहोरिदं शिरः नान्यस्य इति । ऐकान्तिकैकत्वे हि अन्यनिवृत्तिन स्यात् यथा सुवर्णस्य सुवर्ण घटस्य घट इति । २० आजीव इत्यभावमात्रप्रसङ्ग इति चेत् ; न; भावान्तरप्रतिपत्तेरनश्ववत् । ६। स्यान्मतम् न जीवोऽजीव इत्युक्तेऽभावमात्रं प्रसज्येत यथा न भावः अभाव इति; तन्न; किं कारणम् ? भावान्तरप्रतिपत्तः । कथम् ? अनश्ववत् । यथा नायमश्वः अनश्व इत्युक्ते नाभावसंप्रत्ययः किन्तु "नभिवयुक्तमन्यसदृशाधिकरणे तथा झर्थगतिः [पात० महा० ३/१1१२] इति, अन्यस्मिन् भाव एव तल्योदरैकशफादिलक्षणे गर्दभे संप्रत्ययो भवति । एवमिहापि नायं जीव इति प्रतिषेधात् नाभावे २५ संप्रत्ययः, किन्तु अन्यस्मिन् भाव एव अनुपयोगलक्षणे धर्मादौ प्रतिपत्तिर्भवति । सादृश्याभावात अप्रतिपतिरिति चेत् ; न; सत्त्वद्रव्यत्वादिभिः सादृश्योपपत्तेः। यच्चोक्तम्-यथा 'न भावः अभावः' इत्युक्ते अभावमात्रसंप्रत्यय इति; तदप्ययुक्तम् ; सत एव पररूपत्वादिभिः अभावशब्दगो- चरत्वोपपत्तेः। अभ्यन्तरीकृतवार्थः कायशब्दः । ७। इवार्थमभ्यन्तरीकृत्य अत्र कायशब्दः प्रयुक्तः काया इव काया इति । क उपमार्थः ? यथौदारिकादिशरीरनामकर्मोदयवशात पुदगलैश्चीयन्ते कायाः तथा धर्मादीनामनादिपारिणामिकप्रदेशचयनात् कायत्वम् । तद्ग्रहणं प्रदेशावयवबहुत्वज्ञापनार्थम् । ८ । तस्य कायशब्दस्य ग्रहणं क्रियते। किमर्थम् ? प्रदेशावयवबहुत्वज्ञापनार्थम् । मुख्यरूपेणाऽविद्यमानत्वेऽपि श्रोतृणां सुखावबोधार्थं प्रज्ञया द्रव्य परमाण्ववगाहमात्रत्वेन प्रदिश्यन्त इति प्रदेशाः, प्रदेशा एवावयवाः प्रदेशावयवाः तेषां बहुत्वस्य ३५ ज्ञापनार्थम् । __न, असंख्ययाः प्रदेशाः धर्माधर्मकजीवानामिति शास्त्रप्रवृत्तेः ।९। न तत्प्रयोजनम् उपपद्यते। कुतः? अन्यत एव तत्सिद्धेः। वक्ष्यते हि-"असंख्येयाः प्रदेशाः धर्माधमैकजीवानाम्". [त. सू० ५।८] इति । अत एवैषां प्रदेशबहुत्वं सिद्धं नार्थः कायग्रहणेन ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 456