________________
४३२ तत्त्वार्थवार्तिके
[५१ अस्तु वाऽविरोधात् । ४ । अथवा अस्तु भिन्नाधिकरणा वृत्तिः। कुतः१ अविरोधात् । यस्माजीवोऽपि कायः पञ्चास्तिकायोपदेशात् अतस्तनिवृत्त्यर्थोऽत्राजीवशब्दप्रयोगः । अजीवस्य कायो न जीवस्येति । किञ्च,
कथञ्चिद्भेदोपपत्तेः। ५। केनचित्प्रकारेण संज्ञालक्षणप्रयोजनादिना भेद उपपद्यते । यथा ५ सुवर्णस्याङगुलीयकमित्यत्र सुवर्ण सामान्यं तद्विशेषोऽङ्गुलीयकं तयोः सामान्यविशेषयोः संज्ञालक्षणादिभिः कथञ्चिन्नानात्वम् । यदि सर्वथैकत्वं स्यात् ; सुवर्णसामान्यस्याङ्गुलीयकवत् कुण्डलादिषु वृत्तिर्न स्यात् । सुवर्णसामान्यवद्वा अङ्गुलीयकत्वस्य कुण्डलादिषु वृत्तिः स्यात् । त एवाऽन्यनिवृत्त्यर्थः प्रयोगो युक्तः, सुवर्णस्येदमङगुलीयकंन रूप्यादेरिति । यदि सर्वथैकत्वं स्यात;
व्यपदेश एव न स्यात् । तथा अजीवानां काया इत्यत्रापि कायशब्दः प्रदेशवाची। प्रदेशाश्च धो१० दीनां वक्ष्यन्ते । ते च तेभ्यः संज्ञालक्षणादिभिः कथञ्चिद्भिन्नाः। अन्यथा ऐकान्तिकैकत्वे धर्मा
दीनामेकत्ववत् प्रदेशानामप्येकत्वं स्यात् , प्रदेशानां बहुत्ववत् धर्मादीनां बहुत्वं प्रसज्येत । तत एव अन्यनिवृत्त्यर्थः प्रयोगो युक्तः अजीवानां काया न जीवस्येति । यदि सर्वथैकत्वं स्यात्; व्यपदेश एव न स्यात् । ततो भेदोपपत्तः युक्ता भिन्नाधिकरणा वृत्तिः। ननु चाभेदेऽपि लोके व्यपदेशो - दृष्टः यथा शिलापुत्रकस्य शरीरं राहोः शिर इति । न हि शिलापुत्रकादन्यच्छरीरमस्ति, नापि १५ राहोरन्यच्छिरः, शिरोमात्रत्वादिति । तत्राप्यस्ति भेदः । कुतः ? शक्तितः । योऽनेकक्रियानिष्पादन
शक्तिभेदेन भिन्नरूपः शिलापुत्रकः तस्येदं शरीरं एकक्रियाविषयमिति शब्दप्रकस्पिताद् बुद्धिभेदाद्वा कथञ्चित्पृथक्त्वमध्यवसेयम् । अतश्चैतदेवं तदन्यनिवृत्त्यर्थं विशेषणम् उपादीयते-शिलापुत्रकस्येदं शरीरं न मनुष्यादेः, राहोरिदं शिरः नान्यस्य इति । ऐकान्तिकैकत्वे हि अन्यनिवृत्तिन
स्यात् यथा सुवर्णस्य सुवर्ण घटस्य घट इति । २० आजीव इत्यभावमात्रप्रसङ्ग इति चेत् ; न; भावान्तरप्रतिपत्तेरनश्ववत् । ६। स्यान्मतम्
न जीवोऽजीव इत्युक्तेऽभावमात्रं प्रसज्येत यथा न भावः अभाव इति; तन्न; किं कारणम् ? भावान्तरप्रतिपत्तः । कथम् ? अनश्ववत् । यथा नायमश्वः अनश्व इत्युक्ते नाभावसंप्रत्ययः किन्तु "नभिवयुक्तमन्यसदृशाधिकरणे तथा झर्थगतिः [पात० महा० ३/१1१२] इति, अन्यस्मिन् भाव एव
तल्योदरैकशफादिलक्षणे गर्दभे संप्रत्ययो भवति । एवमिहापि नायं जीव इति प्रतिषेधात् नाभावे २५ संप्रत्ययः, किन्तु अन्यस्मिन् भाव एव अनुपयोगलक्षणे धर्मादौ प्रतिपत्तिर्भवति । सादृश्याभावात
अप्रतिपतिरिति चेत् ; न; सत्त्वद्रव्यत्वादिभिः सादृश्योपपत्तेः। यच्चोक्तम्-यथा 'न भावः
अभावः' इत्युक्ते अभावमात्रसंप्रत्यय इति; तदप्ययुक्तम् ; सत एव पररूपत्वादिभिः अभावशब्दगो- चरत्वोपपत्तेः।
अभ्यन्तरीकृतवार्थः कायशब्दः । ७। इवार्थमभ्यन्तरीकृत्य अत्र कायशब्दः प्रयुक्तः काया इव काया इति । क उपमार्थः ? यथौदारिकादिशरीरनामकर्मोदयवशात पुदगलैश्चीयन्ते कायाः तथा धर्मादीनामनादिपारिणामिकप्रदेशचयनात् कायत्वम् ।
तद्ग्रहणं प्रदेशावयवबहुत्वज्ञापनार्थम् । ८ । तस्य कायशब्दस्य ग्रहणं क्रियते। किमर्थम् ? प्रदेशावयवबहुत्वज्ञापनार्थम् । मुख्यरूपेणाऽविद्यमानत्वेऽपि श्रोतृणां सुखावबोधार्थं प्रज्ञया द्रव्य
परमाण्ववगाहमात्रत्वेन प्रदिश्यन्त इति प्रदेशाः, प्रदेशा एवावयवाः प्रदेशावयवाः तेषां बहुत्वस्य ३५ ज्ञापनार्थम् ।
__न, असंख्ययाः प्रदेशाः धर्माधर्मकजीवानामिति शास्त्रप्रवृत्तेः ।९। न तत्प्रयोजनम् उपपद्यते। कुतः? अन्यत एव तत्सिद्धेः। वक्ष्यते हि-"असंख्येयाः प्रदेशाः धर्माधमैकजीवानाम्". [त. सू० ५।८] इति । अत एवैषां प्रदेशबहुत्वं सिद्धं नार्थः कायग्रहणेन ।