________________
श्रीमद्भट्टाकलङ्कदेवविरचितं त त्त्वा र्थ वा र्ति कम्
पञ्चमोऽध्यायः
'इदानी सम्यग्दर्शनस्य विषयभावेनोपक्षिप्तेषु जीवादिपु अजीवपदार्थो विचारप्राप्तः, तस्य भेदसंझासंकीर्तनार्थमिदमुच्यते तत्पूर्वकत्वादितरस्येति
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥
अजीवकाया इति समानाधिकरणा वृत्तिः।। अजीवाश्च ते कायाश्च ते अजीवकाया, इति समानाधिकरणलक्षणा वृत्तिरियं वेदितव्या । कथं वृत्तिः? "विशेषणं विशेष्येण" [ जैनेन्द्र ॥३॥१२1 इति सति व्यभिचारे नीलोत्पलादिषु वृत्तिः ? इहाप्यस्ति व्यभिचारः, कायशब्दस्य जीवेष्वपि वृत्तः, अजीवशब्दस्यापि काले । भिन्नाधिकरणवृत्तौ को दोषः?
भिन्नाधिकरणत्वे हि अर्थान्तरभावप्रसङ्गः।२। यथा राज्ञः पुरुषः राजपुरुष इति अर्थान्तरभावे भिन्नाधिकरणत्वं भवति, तथा अजीवानां कायः अजीवकायः इति भिन्नाधिकरणत्वे i. गृहमाणेऽर्थान्तरभावः प्रसज्येत ।
इष्टत्वात् सुवर्णाङ्गुलीयकवदिति चेत् ; न; ततान्यविशेषनिवृत्त्यर्थत्वात् । ३ । स्यान्मतम्-मिमाधिकरणत्वेऽपि नार्थान्तरभावः। कुतः ? दृष्टत्वात् । कथम् ? सुवर्णाङ्गुलीयकवत् । गया सुवर्णस्य अङ्गुलीयकं सुवर्णाङ्गुलीयकमिति भिन्नाधिकरणत्वेऽपि नार्थभेदः, तथा इहापि न दोष इति । तन्न; किं कारणम् ? तत्रान्यविशेषनिवृत्त्यर्थत्वात् । तत्र हि सुवर्णशब्दप्रयोगः १. रूप्यादेः प्रमाणान्तरस्य च निवृत्त्यर्थम्, सुवर्णस्येदमङगुलीयकं न रूप्यादेर्न माषादेति, न तथेह बाजीवस्य काया अजीवकाया इति विशेषणेन कदाचिदर्थान्तरनिवृत्तिरस्ति ।
अतः पृष्ठद्वयस्य प्राचीनटिप्पणी पाठान्तरं च प्रभ्रष्टम्-सम्पा०।
सम्पा०।