________________
५।१] पञ्चमोऽध्यायः
४३३ प्रदेशसंख्यावधारणार्थमिति चेत् ;न; अतोऽप्यनिश्चयात् । १० । स्यादेतत् "असंख्येयाः प्रदेशाः धर्माधमैकजीवानाम् [त. सू० ५/८] इत्यनेन न प्रदेशसंख्यावधारणं क्रियते। कुतः? त्रयाणां संभूय प्रदेशासंख्येयत्वप्रतिपत्तेः । ततः एकैकस्याऽसंख्येयप्रदेशख्यापनार्थ कायग्रहणमिति; तन्न; किं कारणम् ? अतोऽप्यनिश्चयात् । कायग्रहणादपि नास्ति निश्चयः,प्रदेशप्रचयमात्रप्रतिपत्तः। कुतस्तर्हि तन्निश्चयः ?
"लोकाकाशेऽवगाहः" [त० सू० ५।१२] इत्यादि वचनात् तनिश्चयः । ११ । यदयं "लोकाकाशेऽवगाहः" इत्युक्त्वा "धर्माधर्मयोः कृरस्ने" [ त० सू० ५।१३] इत्यादि वक्ष्यते, तेन तस्य प्रदेशपरिमाणस्य निश्चयो भवति ।
'अप्रदेशकद्रव्यत्वप्रसङ्ग इति चेत् ; न; उक्तत्वात् । १२ । स्यादेतत्-कायग्रहणाहते अप्रदेशैकद्रव्यता प्राप्नोति, अतस्तनिवृत्त्यर्थं कायग्रहणमिति; तन्न; किं कारणम् ? उक्तत्वात । उक्तमे- १० तत्-'असंख्येयाः प्रदेशाः धर्माधर्मैकजीवानाम् इति वक्ष्यते' इति ।
___ आर्षानुवादार्थमिति चेत् ; न तदवस्थत्वात् । १३ । स्यादेतत्-आर्ष मेवं प्रवृत्तम् “पम्चास्तिकायाः" [ ] इति । अतः तदनुवादार्थ कायग्रहणमिति ; तञ्च न, कस्मात् ? तदवस्थत्वात् 'असंख्येयाः प्रदेशाः' इत्यनेनैव आर्षानुवादस्य कृतत्वात्।
।। स्वभावापरित्यागार्थमिति चेत् । न; नित्यावस्थितवचनात् सिद्धः । १४ । स्यान्मतं १५ कायस्वभावापरित्यागार्थ कायग्रहणमिति; तन्नः किं कारणम् ? नित्यावस्थितवचनात् सिद्धेः वक्ष्यते हि "नित्यावस्थितान्यरूपाणि" [त. सू. ५।४] इति, तत एव स्वभावापरित्यागः सिद्धः। 'तत्तर्हि कायग्रहणं न कर्तव्यम् ? कर्तव्यं च । किं प्रयोजनम् ?
तस्सिद्धावसंख्येयप्रदेशावधारणसिद्धः। १५ । तस्य कायशब्दस्य पञ्चस्वपि अस्तिकायेषु प्रदेशावयवबहुत्वार्थस्य सिद्धौ सत्याम् उत्तरवचनमवधारणार्थ युज्यते- असंख्येयाः प्रदेशाः न २० संख्येयाः नाप्यनन्ताः इति, विधिपूर्वकत्वादवधारणस्य ।
अद्धाप्रदेशप्रतिषेधार्थ च । १६ । अद्धाशब्दो निपातः कालवाची, स वक्ष्यमाणलक्षणः, तस्य प्रदेशप्रतिषेधार्थमिह कायग्रहणं क्रियते । यथाऽणोः प्रदेशमात्रत्वात् द्वितीयादयोऽस्य प्रदेशान सन्तीत्यप्रदेशोऽणुः, तथा कालपरमाणुरपि एकप्रदेशत्वादप्रदेश इति ।
धर्मादयः संशाः सामा (म) यिषयः। १७ । धर्मादयः संज्ञाः सामा (म) यिक्यो द्रष्टव्याः। २५ आईते हि प्रवचनेऽनादिनिधने अर्हदादिभिः यथाकालमभिव्यक्तज्ञानदर्शनातिशयप्रकाशैरवयोतितार्थसारे रूढा एताः संज्ञा झेयाः।
क्रियानिमित्ता वा । १८ । अथवा क्रियानिमित्ता एताः संज्ञाः वेदितव्याः। कथमिति चेत् ? उच्यते---- स्वयं क्रियापरिणामिनां 'साचिव्यधानाधर्मः । १९ । स्वयं क्रियापरिणामिनां जीवपुद्ग-१ लानां यस्मात्साचिव्यं दधाति तस्माद्धर्म इत्याख्याते ।
तद्विपरीतोऽधर्मः । २० । तस्य विपरीतलक्षणः अधर्म इत्याम्नायते।
कबितटस्थः प्रत्यवतिष्ठते तमपि प्रतिवदति परः । ३ इति परं पृच्छति तटस्थः। ३ अथ तटस्थमुल्लिख्य भाह परः। तर्हि श्र०। ५ अथ शृण्वनियन्तं कालमाचार्यः प्राह कर्तव्यमित्यादिना । ६ व्यावधाना- मु०, द.।