________________
तत्वार्थवार्त्तिके
[ ५११
आकाशन्तेऽस्मिन् द्रव्याणि स्वयं चाकाशत इत्याकाशम् । २१ । जीवादीनि द्रव्याणि स्वै' स्वैः पर्यायैः अव्यतिरेकेण यस्मिन्नाकाशन्तेः प्रकाशन्ते तदाकाशम्, स्वयं चाऽऽत्मीयपर्यायमर्यादया आकाशत इत्याकाशम् ।
४३४
अवकाशदानाद्वा । २२ । अथवा इतरेषां द्रव्याणाम् अवकाशदानादाकाशमिति पृषोदरादिषु ५ निपातितः शब्दः ।
अलोकाकाशस्यावकाशदानाभावात्तदभाव इति चेत्; न; तत्सामर्थ्याऽविरहात् । २३ । स्यान्मतम्-यद्यवकाशदानादाकाशमित्युच्यते अलोकाकाशे जीवाद्यवकाशदानाभावात् आकाशव्यपदेशो नोपपद्यते इति; तन्न, किं कारणम् ? तत्सामर्थ्याऽविरहात् । यथैष्यत्कालस्यातिदूरस्यापि वर्तमानप्राप्त्यर्ह त्वात् तत्प्राप्त्यभावेऽपि भविष्यद्व्यपदेशो भवति, एवमलोकाकाशस्यावगाहिद्र१० व्याभावेऽपि अवगाहनशक्तिरविरुद्धा इत्यवकाशदानात् आकाशत्वं युज्यते । अथवा, क्रियानिमित्तत्वेऽपि रूढि विशेषबललाभात् गोशब्दवत् तदभावेऽपि प्रवर्तते ।
२०
पूरणगलनान्वर्थसंज्ञत्वात् पुद्गलाः । २४ । यथा भासं करोति भास्कर इति भासनार्थमन्तनीय भास्करसंज्ञाऽन्वर्था प्रवर्तते तथा भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः, यथा शवशायनं १५ श्मशानमिति ।
परमाणुषु तदभावात् पुद्गलत्वाभाव इति चेत्; न; गुणापेक्षया तत्सिद्धेः । २५। स्यान्मतम् - अणूनां निरवयवत्वात्, पूरणगलनक्रियाभावात् पुद्गलव्यपदेशाभावप्रसङ्ग इति; तन्न ; किं कारणम् ? गुणापेक्षया तत्सिद्धेः । रूपरसगन्धस्पर्शयुक्ता हि परमाणवः एकगुणरूपादिपरिणताः द्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तगुणत्वेन वर्धन्ते, तथैव हानिमपि उपयान्तीति गुणापेक्षया पूरणगलनक्रियोपपत्तेः परमाणुष्वपि पुद्गलत्वमविरुद्धम् । अथवा गुण उपचार' कल्पनम् पूरणगलनयोः भावित्वात् भूतत्वाच्च शक्त्यपेक्षया परमाणुषु पुद्गलत्वोपचारः ।
पुलिनाद्वा । २६ । अथवा पुमांसो जीवाः, तैः शरीराहारविषयकरणोपकरणादिभावेन गिल्यन्त इति पुद्गलाः । अण्वादिषु तदभावाद' पुद्गलत्वमिति चेत्; उक्तोत्तरमेतत् ।
बहुवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् । २७ । धर्माधर्माकाशपुद्गला इति बहुवचनं स्वातन्त्र्य२५ प्रतिपत्त्यर्थं द्रष्टव्यम् । किं पुनः स्वातन्त्र्यम् ? धर्मादयो गत्याद्युपग्रहान् प्रति वर्तमानाः स्वयमेव तथा परिणमन्ते न परप्रत्ययाधीना तेषां प्रवृत्तिः इत्येतदत्र विवक्षितं स्वातन्त्र्यम् । ननु च बाह्यद्रव्यादिनिमित्तवशात् परिणामिनां परिणाम उपलभ्यते, स च स्वातन्त्र्ये सति विरुभ्यत इति; नैष दोषः ; बाह्यस्य 'निमित्तमात्रत्वात् । न हि गत्यादिपरिणामिनो जीवपुद्गलाः गत्याद्युपग्रहे' धर्मादीनां प्रेरकाः । ननु 'इतरेतरयोगलक्षणे द्वन्द्वे न्यायप्राप्तं बहुवचनं तेन कथं स्वातन्त्र्यं प्रतीयते ? ३० ‘समाहारे समुदायप्रधाने एकवचनेन सिद्धे बहुवचनं ज्ञापकं स्वातन्त्र्यस्य । यथा “हृतः” [ जैनेन्द्र • ३६१] इत्यत्र एकवचनेन सिद्धे बहुवचनं ज्ञापकम् - अनुक्तस्यापि हृत उत्पत्तिर्यथा स्यात् इति, तेन सिद्धः अन्ते भवः अन्तिमः, यमेन प्रोक्तं याम्यं धर्मशास्त्रमित्यादि ।
प्रशस्ताभिधानाद्धर्मग्रहणमादौ । २८ । धर्मशब्दोऽयं लोके प्रशस्तार्थः ततोऽस्य ग्रहणमादौ
क्रियते ।
१ विराजन्ते |-न्ते तदा-श्र० । २-चारात् क- मु०, ५०, ब० । ३-भावस्वाद - श्र० । ४ निमिसत्वात् ब०, द० । निमित्तवशात् मु० । ५ उपकारे । ६ आविर्भूतावयवभेदः । ७ तिरोहितावयवभेदः ।