________________
५२ ]
पञ्चमोऽध्यायः
४३५
तदनन्तरमधर्मग्रहणं लोकव्यवस्थाहेतुत्वात् । २६ । तदनन्तरम् अधर्मग्रहण' क्रियते । कुतः ? लोकव्यवस्था हेतुत्वात् । पञ्चास्तिकायाः कालश्च लोकः, अवतिष्ठन्ते पदार्था अनया ओकृत्येत्यवस्था, विविधा अवस्था व्यवस्था विविधसन्निवेशो वेत्रासनाद्याकार इत्यर्थः, लोकस्य व्यवस्था लोकव्यवस्था तस्या हेतुत्वात् लोकव्यवस्थाहेतुत्वात् । असति हि अधर्मास्तिकाये गतिमतां द्रव्याणां गतिविषयनियमाभावात् । विष्वग्भावे सति लोकव्यवस्था विशिष्टा न स्यात् ५ अतोऽस्य धर्मानन्तरं ग्रहणं न्याय्यम् ।
·
तत्प्रतिपक्षत्वाच्च ।३० | तस्य धर्मास्तिकायस्य प्रतिपक्षोऽधर्मास्तिकायः स्थितिकारणत्वात् । ततश्चानन्तरं ग्रहण' क्रियते ।
तत्परिच्छेद्यत्वात्तदनन्तरम् आकाशग्रहणम् । ३१ । ताभ्यां धर्माधर्माभ्याम् आकाशं परिच्छिद्यते यत्र धर्माधर्मौ तल्लोकाकाशम् इतरदलोकाकाशमिति । अतः तदनन्तरम् आकाश- १० ग्रहण क्रियते ।
अमूर्तत्वसाधर्म्याश्च |३२| यथा धर्माधर्मावमूर्ती रूपादिविरहात् एवमाकाशमप्यमूर्तम् : अतश्चानन्तरमुक्तम् ।
तदवगाहित्वात् तत्समीपे पुलवचनम् |३३| तदाकाशमवगाह्य पुद्गला वर्तन्ते इति तत्समीपे तेषां वचनं क्रियते ।
आकाशग्रहणमादौ धर्मादीनामाधारत्वादिति चेत्; न; लोकविनिवेशस्यानादित्वात् |३४| स्यान्मतम् - धर्मादीनां पञ्चानामपि द्रव्याणामाकाशम् आधारः साधारणः, ततस्तस्य ग्रहणं सर्वेषामादौ न्याय्यमिति; तन्न; किं कारणम् ? लोकविनिवेशस्यानादित्वात् । नाऽयं नियमोऽस्ति लोक - विनिवेशे आकाशमाधारः इतराणि द्रव्याणि आधेयानि इति । किन्तु लोकविनिवेशक्रम एवायमनादिसिद्ध इति नाकाशमाधारः । आदिमतां हि कुण्डबदरादीनां दृष्ट आधाराधेयभावः ।
१५
"
१ सप्तैकपञ्चाकृत्या | २ ग्रहणं श्र० । ३ तुलना - " घनोदधिवलयं घनवातवलयप्रतिष्ठं घनवातत्रलयं 'तनु वातवलयप्रतिष्ठम् तनुवा तवलयमाकाशप्रतिष्ठम् आकाशमात्मप्रतिष्ठं तस्यैवाधाराधेयत्वात् । " - स० सि० ३।१ । ४ उपदिष्टानाम् । ५ नयस्यादे - श्र०, ता० । ६ ननु व्य-मु०, द०, ब० । ७ - लयं तनु- मु०, मू०, द०, ब०, ता० ।
- २
२०
२५
आर्षविरोध इति चेत्; न; आदेशवचनात् । ३५ स्यादेतत्-यद्याधाराधेयभावो नेष्यते यदुक्तमार्षे – “स्वप्रतिष्ठमाकाशम् आकाशप्रतिष्ठं तनुवातवलयं तनुवातवलयप्रतिष्टं घनवातवलयं तत्प्रतिष्टं घनोदधिवलयम्" [ ] इत्यादि, तद्विरोधः इति; तन्न; किं कारणम् ? आदेशवचनात् ? यदि एकान्तेनाधाराधेयभावो न स्यात् स्यादार्षविरोधः, यदा तु 'स्यादाधाराधेयभाव इति स्यान्नाधाराधेयभावः' इति आदेशवचनादिष्यते ततो नास्त्यार्षविरोधः । कथमिति चेत् ? उच्यते - आकाशादीनां द्रव्यार्थादेशात् स्यादाधाराधेयत्वाभावो यतः पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् प्रतिनियतानादिपारिणामिकद्रव्यार्थे नादिष्टाना माकाशादीनां षण्णामाधाराधेयपर्यायाभावः । द्रव्यार्थिकगुणभावे च पर्यायार्थिकप्राधान्यात् षण्णामपि द्रव्याणाम् श्रादिमत्त्वोपपत्तेराधाराधेयभावो युज्यते । ततस्तदपेक्षया आधाराधेयभाव आर्षे प्रणीत इति नास्ति विरोधः । अथवा व्यवहारन यादेशात् स्यादाधाराधेयता, यतोऽनादिपारिणामिकलोकविनि- ३० वेशेऽपि व्यवहार एवं प्रवृत्तः 'आकाशमाधारः अन्यानि द्रव्याणि आधेयानि' इति । एवम्भूतनयादेशात् स्यादनाधाराधेयता, यतोऽनादिपारिणामिकलोक विनिवेशस्यैवंभूतत्वात् 'स्वात्मप्रतिष्ठान्येव सर्वद्रव्याणि' इति । ननु च व्यवहारनयापेक्षया आधाराधेयभावाभ्युपगमे अनवस्थाप्रसङ्गः -वनोदधिवलयस्य घनवातवलयमाधारः, घनवातवलयस्य तनुवातवलयमाधारः, तनुवातवलयस्य आका