________________
तत्त्वार्थवार्तिके
[AR शम् , आकाशस्याऽन्यत् , तस्यान्यत् , तस्याप्यन्यदिति; नैषः दोषः, आकाशस्य सर्वगतत्वात् अनन्तत्वाच । येद्धि सर्वगतमनन्तं च तस्य सर्वत्र सानिध्यात् 'तस्याप्यन्यत् तस्याप्यन्यत्' इति व्यवहाराभावात् अनवस्था नास्ति । परिशेषादसर्वगतस्यान्तवतो मूर्तिमतः सावयवस्यन्द्रियकस्य स्यादनवस्था, तद्विपरीतलक्षणञ्चाकाशम् , अतो नास्त्यनवस्था । यदि सर्वगतत्वादिलक्षणस्यानवस्था ५ दृष्टा सोच्यताम् , नैषोच्यते ततो विमुच्यतामनवस्थादोषकल्पना। तस्मानिःप्रतिद्वन्द्वः पूर्वोक्त एवास्तु क्रमहेतुः।
कालोपसंख्यानमिति चेत् ; न; वक्ष्यमाणलक्षणत्वात् ॥३६॥ स्यादेतत्-कालोऽपि कश्चिदजीवपदार्थोऽस्ति । अतश्चास्ति यद्भाष्ये बहुकृत्वः “षद्रव्याणि" [ ..] इत्युक्तम् , अतोऽस्योप
संख्यानं कर्तव्यमिति ? तन्नः किं कारणम् ; वक्ष्यमाणलक्षणत्वात्। वक्ष्यते हि तस्य लक्षणमु१० परिष्ठात् ।
__ अत्राह "सर्वदव्यपर्यायेषु केवलस्य" [त० सू० १।२६] इत्येवमादिषु द्रव्याण्युक्तानि कानि तानीति? अत्रोच्यते
द्रव्याणि ॥२॥ स्वपरप्रत्ययोत्पादविगमपर्यायैः दयन्ते द्रवन्ति वा तानीति द्रव्याणि ।। स्वश्च परश्च १५ स्वपरी, स्वपरौ प्रत्ययौ ययोः तौ स्वपरप्रत्ययौ । उत्पादश्च विगमश्चोत्पादविगमौ स्वपरप्रत्ययौ
उत्पादविगमौ येषां ते स्वपरप्रत्ययोत्पादविगमाः। के पुनस्ते ? पर्यायाः। द्रव्यक्षेत्रकालभावलक्षणो बाह्यः प्रत्ययः परः प्रत्ययः तस्मिन् सत्यपि स्वयमतत्परिणामोऽर्थो न पर्यायान्तरम् आस्कन्दति इति । तत्समर्थः स्वश्च प्रत्ययः । तावुभौ संभूय भावानाम् उत्पादविगमयोः हेतू भवतः
नान्यतरापाये कुशूलस्थमाष-पच्यमानोदकस्थघोटकमाषवत् । एवमुभयहेतुकोत्पादविगमैः तैस्तैः २० स्वपर्यायैः द्रूयन्ते गम्यन्ते द्रवन्ति गच्छन्ति तान् पर्यायानिति द्रव्याणीति व्यपदिश्यन्ते । भेदनयव
शात् कर्तृकर्मणोर्भेदं कृत्वा निर्देशः क्रियते स्वजात्यपरित्यागेनावस्थितिरन्वयैरुपलब्धस्वरूपाणां मुहुर्मुहुरुत्पादाविगमवंतां च भेदोपपत्तेः। यदा द्रव्याणां कर्मविवक्षा तदा न्यायप्राप्तः कर्मणि यः । यदा कर्तृविवक्षा तदा बहुलापेक्षया कर्तरि यः। अथवा उत्पादकविनश्वरनानापर्यायोत्पाद
विनाशाविच्छेदेऽपि सान्ततिकद्रव्यार्थादेशवशेन द्रवणात् गमनात् संप्रत्ययाद् द्रव्याणि । कुत एतत् ? २४ गत्यर्थानां ज्ञानार्थत्वात् ।
इवार्थे वा निपातितो द्रव्यशब्दः। अथवा "द्रव्यं भव्ये" [जैनेन्द्र० ४११११५८] इत्यनेन निपातितो द्रव्यशब्दो वेदितव्यः । द्र इव भवतीति द्रव्यम् । क उपमार्थः ? द्रु इति दारु नाम यथा अग्रन्थि अंजिह्म दारु तक्ष्णोपकल्प्यमानं तेन तेन अभिलषितेनाकारेण आविर्भवति, तथा
द्रव्यमपि आत्मपरिणामगमनसमर्थ पाषाणखननोदकवदविभक्तकर्तृकरणमुभयनिमित्तवशोपनीता३० त्मना तेन तेन पर्यायेण द्र इव भवतीति द्रव्यमित्युपमीयते ।
द्रव्यत्वादिति चेत् ; न तदभावात् ।। स्यान्मतम्-यथा दण्डसम्बन्धात् दण्डीत्यभिधानं प्रत्ययश्च देवदत्ते भवति तथा द्रव्यत्वं नाम सामान्यविशेषोऽस्ति पृथिव्यादिषु द्रव्यं द्रव्यमिति प्रत्ययाभिधानानुप्रवृत्तिदर्शनात् , गुणकर्मभ्यो व्यावृत्त्युपलब्धेश्चानुमीयमानान्वयव्यतिरेकः तेन
१ यदि श्र० । २ पक्षः । ३ द्रव्याणाम् । णां तु मु-मु० । ४ पर्यायाणाम् । ५ द्रव्यार्थे मु०। ६ अचिवम् द०, २०, मु०। अकुटिलम्-ता०, टि।