Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 12
________________ श्रीमन्नागसेनमुनिविरचितं 'रज्यता तदर्थानिन्द्रियैान मुह्यति द्वेष्टि रज्यते। ततो बंधो भ्रमत्येवं मोहव्यूहगतः पुमान् ॥ १९॥ तस्मादेतस्य मोहस्य मिथ्याज्ञानस्य च द्विषः । ममाहंकारयोश्चात्मन्विनाशाय कुरूधमं ॥ २०॥ बंधहेतुषु मुख्येषु नश्यत्सु क्रमशस्तव । शेषोऽपि रागद्वेषादिबंधहेतुर्विनश्यति ॥ २१ ॥ ततस्त्वं बंधहेतूनां समस्तानां विनाशतः । बंधप्रणाशान्मुक्तः सन्न भ्रमिष्यसि संसृतौ ॥ २२ ॥ बंधहेतुविनाशस्तु मोक्षहेतुपरिग्रहात् । परस्परविरुद्धत्वाच्छीतोष्णस्पर्शवत्तयोः ॥ २३ ॥ स्यात्सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः। मुक्तिहेतुर्जिनोपज्ञं निर्जरासंवरक्रियाः ॥ २४ ॥ जीवादयो नवाप्यर्था ये यथा जिनभाषिताः । ते तथैवेति या श्रद्धा सा सम्यग्दर्शनं स्मृतं ॥ २५ ॥ प्रमाणनयनिक्षेपैर्यो याथात्म्येन निश्चयः । जीवादिषु पदार्थेषु सम्यग्ज्ञानं तदिष्यते ॥ २६ ॥ चेतसा वचसा तन्वा कृतानुमतकारितैः । पापक्रियाणां यस्त्यागः सञ्चारित्रमुषंति तत् ॥ २७ ॥ मोक्षहेतुः पुनर्बधा निश्चयव्यवहारतः । तत्रायः साध्यरूपः स्याद्वितीयस्तस्य साधनं ॥ २८ ॥ अभिन्नकर्तृकर्मादिविषयो निश्चयो नयः । व्यवहारनयो भिन्नकर्तृकर्मादिगोचरः ॥ २९ ॥ धर्मादिश्रद्धानं सम्यक्त्वं ज्ञानमधिगमस्तेषां । चरणं च तपसि चेष्टा व्यवहाराद् मुक्तिहेतुरयं ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 186