________________
श्रीमन्नागसेनमुनिविरचितं
'रज्यता
तदर्थानिन्द्रियैान मुह्यति द्वेष्टि रज्यते। ततो बंधो भ्रमत्येवं मोहव्यूहगतः पुमान् ॥ १९॥ तस्मादेतस्य मोहस्य मिथ्याज्ञानस्य च द्विषः । ममाहंकारयोश्चात्मन्विनाशाय कुरूधमं ॥ २०॥ बंधहेतुषु मुख्येषु नश्यत्सु क्रमशस्तव । शेषोऽपि रागद्वेषादिबंधहेतुर्विनश्यति ॥ २१ ॥ ततस्त्वं बंधहेतूनां समस्तानां विनाशतः । बंधप्रणाशान्मुक्तः सन्न भ्रमिष्यसि संसृतौ ॥ २२ ॥ बंधहेतुविनाशस्तु मोक्षहेतुपरिग्रहात् । परस्परविरुद्धत्वाच्छीतोष्णस्पर्शवत्तयोः ॥ २३ ॥ स्यात्सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः। मुक्तिहेतुर्जिनोपज्ञं निर्जरासंवरक्रियाः ॥ २४ ॥ जीवादयो नवाप्यर्था ये यथा जिनभाषिताः । ते तथैवेति या श्रद्धा सा सम्यग्दर्शनं स्मृतं ॥ २५ ॥ प्रमाणनयनिक्षेपैर्यो याथात्म्येन निश्चयः । जीवादिषु पदार्थेषु सम्यग्ज्ञानं तदिष्यते ॥ २६ ॥ चेतसा वचसा तन्वा कृतानुमतकारितैः । पापक्रियाणां यस्त्यागः सञ्चारित्रमुषंति तत् ॥ २७ ॥ मोक्षहेतुः पुनर्बधा निश्चयव्यवहारतः । तत्रायः साध्यरूपः स्याद्वितीयस्तस्य साधनं ॥ २८ ॥ अभिन्नकर्तृकर्मादिविषयो निश्चयो नयः । व्यवहारनयो भिन्नकर्तृकर्मादिगोचरः ॥ २९ ॥ धर्मादिश्रद्धानं सम्यक्त्वं ज्ञानमधिगमस्तेषां । चरणं च तपसि चेष्टा व्यवहाराद् मुक्तिहेतुरयं ॥ ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org