________________
तत्त्वानुशासनम् ।
निश्चयनयेन भणितस्त्रिभिरेभिर्यः समाहितो भिक्षुः । नोपादत्ते किंचिन्न च मुञ्चति मोक्षहेतुरसौ ॥ ३१ ॥ यो मध्यस्थः पश्यति जानात्यात्मानमात्मनात्मन्यात्मा। हगवगमचरणरूपस्स निश्चयान्मुक्तिहेतुरिति जिनोक्तिः३२ स च मुक्तिहेतुरिद्धो ध्याने यस्मादवाप्यते द्विविधोऽपि । तस्मादभ्यसन्तु ध्यानं सुधियःसदाप्यपास्यालस्यं ॥ ३३॥ आर्त रौद्रं च दुर्ध्यानं वर्जनीयमिदं सदा। धर्म शुक्लं च सद्ध्यानमुपादेयं मुमुक्षुभिः ॥ ३४ ॥ वज्रसंहननोपेताः पूर्वश्रुतसमन्विताः। दध्युः शुक्लमिहातीताः श्रेण्योरारोहणक्षमाः ॥ ३५ ॥ तादृक्सामग्र्यभावे तु ध्यातुं शुक्लमिहाक्षमान । ऐदंयुगीनानुद्दिश्य धर्म्यध्यानं प्रचक्ष्महे ॥ ३६॥ ध्याता ध्यानं फलं ध्येयं यस्य यत्र यदा यथा । इत्येतदत्र बोद्धव्यं ध्यातुकामेन योगिना ॥ ३७॥ गुप्तेन्द्रियमना ध्याता ध्येयं वस्तु यथास्थितं । .. एकाग्रचिंतनं ध्यानं निर्जरासंवरौ फलं ॥ ३८॥ देशः कालश्च सोऽन्वेष्य सा चावस्थानुगम्यतां । यदा यत्र यथा ध्यानमपविघ्नं प्रसिद्धयति ॥ ३९ ॥ इति संक्षेपतो ग्राह्यमष्टांग योगसाधनं । विवरीतुमदः किचिदुच्यमानं निशाम्यतां ॥४०॥ तत्रासन्नीभवेन्मुक्तिः किंचिदासाद्य कारणं । विरक्तः कामभोगेभ्यस्त्यक्तसर्वपरिग्रहः ॥४१॥ अभ्येत्य सम्यगाचार्य दक्षिा जैनेश्वरीं श्रितः । तपःसंयमसम्पन्नः प्रमादरहिताशयः ॥४२॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org