________________
श्रीमन्नागसेनमुनिविरचितं---
सम्यग्निर्णीतजीवादिध्येयवस्तुव्यवस्थितिः । आर्त्तरौद्रपरित्यागालब्धचित्तप्रसत्तिकः ॥ ४३ ॥
मुक्तलोकद्वयापेक्षः षोढाशेषपरीषहः ।
अनुष्ठितक्रियायोगो ध्यानयोगे कृतोद्यमः ॥ ४४ ॥
महासत्त्वः परित्यक्तदुर्लेश्याशुभभावनः । इतीग्लक्षणो ध्याता धर्मध्यानस्य सम्मतः ॥ ४५ ॥
अप्रमत्तः प्रमत्तञ्च सदष्टिर्देशसंयतः । धर्मध्यानस्य चत्वारस्तत्त्वार्थे स्वामिनः स्मृताः ॥ ४६ ॥ मुख्योपचारभेदेन धर्मध्यानमिह द्विधा । अप्रमत्तेषु तन्मुख्यमितरेष्वौपचारिकं ॥ ४७ ॥ द्रव्यक्षेत्रादिसामग्री ध्यानोत्पत्तौ यतस्त्रिधा । ध्यातारस्त्रिविधास्तस्मात्तेषां ध्यानान्यपि त्रिधा ॥ ४८ ॥ सामग्रीतः प्रकृष्टाया ध्यातरि ध्यानमुत्तमं । स्याज्जघन्यं जघन्याया मध्यमायास्तु मध्यमं ॥ ४९ ॥ श्रुतेन विकलेनापि ध्याता स्यान्मनसा स्थिरः । प्रबुद्धधीरधः श्रेण्योर्धर्मध्यानस्य सुश्रुतः ॥ ५० ॥ सदूदृष्टिज्ञानवृत्तानि धर्मं धर्मेश्वरा विदुः । तस्माद्यदनपेतं हि धर्म्यं तद्ध्यानमभ्यधुः ॥ ५१ ॥ आत्मनः परिणामो यो मोहक्षोभविवर्जितः । स च धर्मोनपेतं यत्तस्मात्तद्धर्म्यमित्यपि ॥ ५२ ॥ शून्यीभवदिदं विश्वं स्वरूपेण धृतं यतः । तस्माद्वस्तुस्वरूपं हि प्राहुर्धर्म महर्षयः ॥ ५३ ॥ ततोऽनपेतं यज्ज्ञातं तद्धर्म्यं ध्यानमिष्यते । धर्मो हि वस्तु याथात्म्यमित्यार्षेऽप्यभिधानतः ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org