________________
तत्त्वानुशासनम् ।
यस्तूत्तमक्षमादिः स्याद्धर्मो दशतया परः । ततोऽनपेतं यद्ध्यानं तद्वा धर्म्यमितीरितं ॥ ५५॥ एकाग्रचिंतारोधो यः परिस्पंदेन वर्जितः । तयानं निर्जराहेतुः संवरस्य च कारणं ॥ ५६ ॥ एकं प्रधानमित्याहुरग्रमालंबनं मुखं । चिंतां स्मृति निरोधं तु तस्यास्तत्रैव वर्त्तनं ॥ ५७ ।। द्रव्यपर्याययोर्मध्ये प्राधान्येन यदर्पितं। तत्र चिंतानिरोधो यस्तद्धयानं बभर्जिनाः ॥ ५८ ॥ एकाग्रग्रहणं चात्र वै व्यग्रविनिवृत्तये । व्यग्रं ह्यज्ञानमेव स्यायानमेकाग्रमुच्यते ॥ ५९ ॥ प्रत्याहृत्य यदा चिंता नानालंबनवर्तिनीं। एकालंबन एवैनां निरुणद्धि विशुद्धधीः ॥६०॥ तदास्य योगिनो योगश्चितैकाग्रनिरोधनं । प्रसंख्यानं समाधिः स्यायानं स्वेष्टफलप्रदं ॥६१ ॥ अथवांगति जानातीत्यग्रमात्मा निरुक्तितः । तत्त्वेषु चाग्रगण्यत्वादसावग्रमिति स्मृतः ॥ ६२॥ द्रव्यार्थिकनयादेकः केवलो वा तथोदितः । अंतःकरणवृत्तिस्तु चिंतारोधो नियंत्रणा ॥६३॥ अभावो वा निरोधः स्यात्स च चिंतांतरव्ययः । एकचिंतात्मको यद्वा स्वसंविचिंतयोज्झितः ॥६४॥ तत्रात्मन्यसहाये यचिंतायाः स्यान्निरोधनं । तद्ध्यानं तदभावो वा स्वसंवित्तिमयश्च सः ॥६५॥ श्रुतज्ञानमुदासीनं यथार्थमतिनिश्चलं । स्वर्गापवर्गफलदं ध्यानमांतर्मुहूर्त्ततः ॥ ६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org