________________
श्रीमन्नागसेनमुनिविरचितं
ध्यायते येन तयानं यो ध्यायति स एव वा । यत्र वा ध्यायते. यद्वा ध्यातिर्वा ध्यानमिष्यते ॥ ६७ ॥ श्रुतज्ञानेन मनसा यतो ध्यायन्ति योगिनः । ततः स्थिरं मनो ध्यानं श्रुतज्ञानं च तात्त्विकं ॥६८ ॥ ज्ञानादातरादात्मा तस्माज्ज्ञानं न चान्यतः । एकं पूर्वापरीभूतं ज्ञानमात्मेति कीर्त्तितं ॥ ६९ ।। ध्येयार्थालंबनं ध्यानं ध्यातुर्यस्मान्न भिद्यते । द्रव्यार्थिकनयात्तस्माद्धयातैव ध्यानमुच्यते ॥ ७० ॥ ध्यातरि ध्यायते ध्येयं यस्मानिश्चयमाश्रितैः । तस्मादिदमपि ध्यानं कर्माधिकरणद्वयं ॥७१ ॥ इष्टे ध्येये स्थिरा बुद्धिर्या स्यात्संतानवर्तिनी । ज्ञानांतरापरामृष्टा सा ध्यातिानमारिता ॥ ७२ ॥ एकं च कर्ता करणं कर्माधिकरणं फलं । ध्यानमेवेदमखिलं निरुक्तं निश्चयान्नयात् ॥ ७३ ॥ स्वात्मानं स्वात्मनि स्वेन ध्यायेत्स्वस्मै स्वतो यतः । षट्रारकमयस्तस्माद्ध्यानमात्मैव निश्चयात् ॥ ७४ ॥ संगत्यागः कषायाणां निग्रहो व्रतधारणं । मनोऽक्षाणां जयश्चेति सामग्री ध्यानजन्मने ॥ ७५ ॥ इन्द्रियाणां प्रवृत्तौ च निवृत्तौ च मनः प्रभुः । मन एव जयेत्तस्माज्जिते तस्मिन् जितेन्द्रियः ॥ ७६॥ ज्ञानवैराग्यरज्जूभ्यां नित्यमुत्पथवर्तिनः । जितचित्तेन शक्यन्ते धर्तुमिन्द्रियवाजिनः ॥ ७७ ॥ येनोपायेन शक्येत सन्नियन्तुं चलं मनः । स एवोऽपासनीयोऽत्र न चैव विरमेत्ततः॥ ७८ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org