________________
तत्त्वानुशासनम् ।
संचितयन्ननुप्रेक्षाः स्वाध्याये नित्यमुद्यतः । जयत्येव मनः साधुरिन्द्रियार्थपराङ्मुखः ॥ ७९ ॥ स्वाध्यायः परमस्तावज्जयः पंचनमस्कृतेः । पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ॥ ८० ॥ स्वाध्यायाद्ध्यानमध्यास्तां ध्यानात्स्वाध्यायमामनेत् । ध्यानस्वाध्यायसंपत्त्या परमात्मा प्रकाशते ॥ ८१ ॥
हुर्न हि कालोऽयं ध्यानस्य ध्यायतामिति । तेऽर्हन्मतानभिज्ञत्वं ख्यापयंत्यात्मनः स्वयं ॥ ८२ ॥ अत्रेदानीं निषेधति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणीभ्यां प्राग्विवर्त्तिनां ॥ ८३ ॥ यत्पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्यो ध्यानं प्रतीत्योक्तं तन्नाधस्तान्निषेधकं ॥ ८४ ॥ ध्यातारश्चेन्न सन्त्यद्यश्रुतसागरपारगाः । तत्किमल्पश्रुतैरन्यैर्न ध्यातव्यं स्वशक्तितः ॥ ८५ ॥ चरितारो न चेत्सन्ति यथाख्यातस्य संप्रति । तत्किमन्ये यथाशक्तिमाचरन्तु तपस्विनः ॥ ८६ ॥ सम्यग्गुरूपदेशेन समभ्यस्यन्ननारतं । धारणासौष्टवाद्वयानं प्रत्ययानपि पश्यति ॥ ८७ ॥ यथाऽभ्यासेन शास्त्राणि स्थिराणि स्युर्महान्त्यपि । तथा ध्यानमपि स्थैर्यं लभतेऽभ्यासवर्त्तिनां ॥ ८८ ॥ यथोक्तलक्षणो ध्याता ध्यातुमुत्सहते यथा । तदेव परिकर्म्मादौ कृत्वा ध्यायतु धीरधीः ॥ ८९ ॥ शून्यागारे गुहायां वा दिवा वा यदि वा निशि । स्त्रीपशुक्लीवजीवानां क्षुद्राणामप्यगोचरे ॥ ९० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org