________________
श्रीमन्नागसेन मुनिविरचितं -
अन्यत्र वा क्वचिद्देशे प्रशस्ते प्रासुके समे । चेतनाचेतनाशेषध्यानविघ्नविवर्जिते ॥ ९१
भूतले वा शिलापट्टे सुखासीनः स्थितोऽथवा । सममृज्वायतं गात्रं निःकंपावयवं दधत् ॥ ९२ ॥ नासाग्रन्यस्तनिष्पंदलोचनो मंदमुच्छ्वसन् । द्वात्रिंशद्दोषनिर्मुक्तकायोत्सर्गव्यवस्थितः ॥ ९३ ॥ प्रत्याहृत्याक्षलुंटाकां स्तदर्थेभ्यः प्रयत्नतः । चिंतां चाकृष्य सर्वेभ्यो निरुध्य ध्येयवस्तुनि ॥ ९४ ॥ निरस्तनिद्रो निर्भीतिर्निरालस्यो निरंतरं । स्वरूपं पररूपं वा ध्यायेदंतर्विशुद्धये ॥ ९५ ॥ निश्चयाद् व्यवहाराच्च ध्यानं द्विविधमागमे । स्वरूपालंचनं पूर्व परालंबनमुत्तरं ॥ ९६ ॥ अभिन्नमाद्यमन्यत्तु भिन्नं तत्तावदुच्यते । भिन्ने हि विहिताभ्यासोऽभिन्नं ध्यायत्यनाकुलः ॥ ९७ ॥ आज्ञापायो विपाकं च संस्थानं भुवनस्य च । यथागममविक्षिप्त चेतसा चिंतयेन्मुनिः ॥ ९८ ॥ नाम च स्थापनं द्रव्यं भावश्चेति चतुर्विधं । समस्तं व्यस्तमप्येतद्धयेयमध्यात्मवेदिभिः ॥ ९९ ॥ वाच्यस्य वाचकं नाम प्रतिमा स्थापना मता । गुणपर्ययवद्द्रव्यं भावः स्याद्गुणपर्ययौ ॥ १०० ॥ आदौ मध्येऽवसाने यद्वाड़मयं व्याप्य तिष्ठति । हृदि ज्योतिष्मदुद्गच्छन्नामध्येयं तदर्हतां ॥ १०१ ॥ हृत्पंकजे चतुःपत्रे ज्योतिष्मंति प्रदक्षिणं । असिआउसाक्षराणि ध्येयानि परमेष्ठिनां ॥ १०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org