________________
तत्त्वानुशासनम् ।
ध्यायेदइउएओ च तद्वन्मंत्रानुदर्चिषः। मत्याविज्ञाननामानि मत्यादिज्ञानसिद्धये ॥ १०३॥ सप्ताक्षरं महामंत्रं मुखरंधेषु सप्तसु । गुरूपदेशतो ध्यायेदिच्छन् दूरश्रवादिकं ॥ १०४ ॥ हृदयेऽष्टदलं पद्मं वगैः पूरितमष्टभिः । दलेषु कर्णिकायां च नाम्नाधिष्ठितमहतां ॥ १०५ ।। गणभृद्वलयोपेतं त्रिःपरीतं च मायया । क्षोणीमंडलमध्यस्थं ध्यायेदभ्यर्चयेच्च तत् ॥ १०६ ॥ अकारादिहकारान्ताः मंत्राः परमशक्तयः । स्वमंडलगता ध्येया लोकद्वयफलप्रदाः ॥ १०७ ॥ इत्यादीन्मंत्रिणी मंत्रानहन्मंत्रपुरस्सरान् । ध्यायन्ति यदिह स्पष्टं नामध्येयमवैहि तत् ॥ १०८ ॥ जिनेन्द्रप्रतिबिंबानि कृत्रिमाण्यकृतानि च । यथोक्तान्यागमे तानि तथा ध्यायेदशंकितं ॥१०९ ॥ यथैकमेकदा द्रव्यमुत्पित्सु स्थास्नु नश्वरं । तथैव सर्वदा सर्वमिति तत्त्वं विचिंतयेत् ॥११॥ चेतनोऽचेतनो वार्थो यो यथैव व्यवस्थितः । तथैव तस्य यो भावो याथात्म्यं तत्त्वमुच्यते ॥ १११ ॥ अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणं । उन्मजन्ति निमज्जन्ति जलकल्लोलवजले ॥ ११२॥ यद्विवृत्तं यथापूर्व यच्च पश्चाद्विवय॑ति । विवर्तते यदत्राद्य तदेवेदमिदं च तत् ॥ ११३॥
१सूक्ष्मं द्रव्यापृथक्भूता व्यावृत्ताश्च परस्परं । उत्पद्यते विपद्यते जलकल्लोलवजले॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org