________________
श्रीमन्नागसेनमुनिविरचितं
सहवृत्ता गुणास्तत्र पर्यायाः क्रमवर्तिनः । स्थादेतदात्मकं द्रव्यमेते च स्युस्तदात्मकाः ॥११४॥ एवंविधमिदं वस्तु स्थित्युत्पत्तिव्ययात्मकं । प्रतिक्षणमनाय॑तं सर्व ध्येयं यथास्थितं ॥ ११५॥ अर्थव्यंजनपर्याया मूर्तीमूर्त्ता गुणाश्च ये। यत्र द्रव्ये यथावस्थास्तांश्च तत्र तथा स्मरेत् ॥ ११६ ॥ पुरुषः पुद्गलः कालो धर्माधर्मों तथांवरं । षधिं द्रव्यमानातं तत्र ध्येयतमः पुमान् ॥ ११७॥ सति हि ज्ञातरि ज्ञेयं ध्येयतां प्रतिपद्यते । ततो ज्ञानस्वरूपोऽयमात्मा ध्येयतमः स्मृतः ॥ ११८ ।। तत्रापि तत्त्वतः पंच ध्यातव्याः परमेष्ठिनः । चत्त्वारः सकलास्तेषु सिद्धः स्वामीति निष्कलः ॥ ११९॥ अनंतदर्शनज्ञानसम्यक्त्वादिगुणात्मकं । स्वोपात्तानंतरत्यक्तशरीराकारधारिणः ॥ १२० ॥ साकारं च निराकारममूर्तमजरामरं । जिनबिंबमिव स्वच्छस्फटिकप्रतिबिंबितं ॥ १२१ ॥ लोकाग्रशिखरारूढ़मुंदूढसुखसंपदं । सिद्धात्मानं निराबाधं ध्यायेन्नि तकल्मषं ॥ १२२ ॥ तथाधमाप्तमाप्तानां देवानामधिदैवतं । प्रक्षीणघातिकर्माणं प्रातानंतचतुष्टयं ॥ १२३ ॥ दूरमुत्सृज्य भूभागं नभस्तलमधिष्ठितं । परमौदारिकस्वांगप्रभासितभास्करं ॥ १२४ ॥ १ मूर्तो व्यंजनपर्यायो वाग्गम्योऽनश्वरस्थिरः। सूक्ष्मः प्रतिक्षणध्वंसी पर्यायश्चार्थबकः । २ उद्धृतं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org