________________
१२
तत्त्वानुशासनम् ।
चतुस्त्रिंशन्महाश्चर्यैः प्रातिहार्यैश्च भूषितं । मुनितिर्यङ्नरस्वर्गिसभाभिः सन्निषेवितं ॥ १२५ ॥ जन्माभिषेकप्रमुखप्राप्तपूजातिशायिनं केवलज्ञाननिर्णीत विश्वतत्त्वोपदेशिनं ॥ १२६ ॥
।
प्रभास्वलक्षणाकीर्णसंपूर्णोदग्रविग्रहं ।
आकाशस्कटिकांतस्थज्वलज्ज्वालानलोज्वलं ॥ १२७ ॥
तेजसामुत्तमं तेजो ज्योतिषां ज्योतिरुत्तमं । परमात्मानमर्हतं ध्यायेन्निःश्रेयसाप्तये ॥ १२८ ॥ वीतरागोऽप्ययं देवो ध्यायमानो मुमुक्षुभिः । स्वर्गापवर्गफलदः शक्तिस्तस्य हि तादृशी ॥ १२९ ॥ सम्यग्ज्ञानादिसंपन्नाः प्राप्तसप्तमहर्धयः । तथोक्तलक्षणाः ध्येयाः सूर्युपाध्यायसाधवः ॥ १३० ॥ एवं नामादिभेदेन ध्येयमुक्तं चतुर्विधं । अथवा द्रव्यभावाभ्यां द्विधैव तदवस्थितं ॥ १३१ ॥ द्रव्यध्येयं बहिर्वस्तु चेतनाचेतनात्मकं । भावभ्येयं पुनर्भेयसन्निभध्यानपर्ययः ॥ १३२ ॥ ध्याने हि बिभ्रते स्थैर्य ध्येयरूपं परिस्फुटं । आलेखितमिवाभाति ध्येयस्यासन्निधावपि ॥ १३३ ॥ धातुपिंडे स्थितेचैवं ध्येयोऽर्थो ध्यायते यतः । ध्येयपिंडस्थमित्याहुरत एव च केवलं ॥ १३४ ॥ यदा ध्यानबल|याता शून्यीकृत्य स्वविग्रहं । ध्येयस्वरूपाविष्टत्वात्तादृक् संपद्यते स्वयं ॥ १३५ ॥ तदा तथाविधध्यानसंवित्तिध्वस्तकल्पनः । स एव परमात्मा स्याद्वैनतेयश्च मन्मथः ॥ १३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org