________________
श्रीमन्नागसेनमुनिविरचितं
सोऽयं समरसीभावस्तदेकीकरणं स्मृतं । एतदेव समाधिः स्याल्लोकद्वयफलप्रदः ॥ १३७ ॥ किमत्र बहुनोक्तेन ज्ञात्वा श्रद्धाय तत्त्वतः । ध्येयं समस्तमप्येतन्माध्यस्थ्यं तत्र विभ्रता ॥१३८॥ माध्यस्थ्यं समतोपेक्षा वैराग्यं साम्यमस्पृहः । वैतृष्ण्यं परमः शांतिरित्येकोऽर्थोऽभिधीयते॥१३९ ॥ संक्षेपेण यत्रोक्तं विस्तरात्परमागमे। तत्सर्व ध्यानमेव स्याद्धयातेषु. परमेष्ठिषु ॥ १४०॥ व्यवहारनयादेवं ध्यानमुक्तं पराश्रयं । निश्चयादधुना स्वात्मालंबनं तन्निरूप्यते ॥ १४१ ॥ ब्रुवता ध्यानशब्दार्थ यद्रहस्यमवादिसत्। . तथापि स्पष्टमाख्यातुं पुनरप्यभिधीयते ॥१४२ ॥ दिधासुः स्वं परं ज्ञात्वा श्रद्धाय च यथास्थितिं । विहायान्यदनार्थत्वात् स्वमेवावतु पश्यतु॥ १४३॥ पूर्व श्रुतेन संस्कारं स्वात्मन्यारोपयेत्ततः। तत्रैकाग्रं समासाद्य न किंचिदपि चिंतयेत् ॥ १४४॥ यस्तु नालंब्यते श्रौती भावनां कल्पनाभयात् । सोऽवश्यं मुह्यति स्वस्मिन्बहिश्चितां बिभर्ति च ॥ १४५ ॥ तस्मान्मोहप्रहाणाय बहिचितानिवृत्तये । स्वात्मानं भावयेत्पूर्वमैकाग्रस्य च सिद्धये ॥ १४६ ॥ तथा हि चेतनोऽसंख्यप्रदेशो मूर्तिवर्जितः । . शुद्धात्मा सिद्धरूपोऽस्मि ज्ञानदर्शनलक्षणः ॥ १४७ ॥ नान्योऽस्मि नाहमस्त्यन्यो नान्यस्याहं न मे परः । अन्यस्त्वन्योऽहमेवाहमन्योन्यस्याहमेव मे ॥ १४८॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org