SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तत्त्वानुशासनम् । अन्यच्छरीरमन्योऽहं चिदहं तदचेतनं । अनेकमेतदेकोऽहं क्षयीदमहमक्षयः ॥ १४९॥ अचेतनं भवे नाहं नाहमयस्त्यचेतनं । ज्ञानात्माहं न मे कश्चिन्नाहमन्यस्य कस्यचित् ॥ १५० ॥ योऽत्र स्वस्वामिसंबंधो ममाभूद्वपुषा सह । यश्चैकत्वभ्रमस्सोऽपि परस्मान स्वरूपतः॥१५१ ॥ जीवादिद्रव्ययाथात्म्यज्ञातात्मकमिहात्मना। पश्यन्नात्मन्यथात्मानमुदासीनोऽस्मि वस्तुषु ॥ १५२ ॥ सद्रव्यमस्मि चिदहं ज्ञाता द्रष्टा सदाप्युदासीनः। स्वोपात्तदेहमात्रस्ततः पृथग्गगनवदमूर्तः ॥ १५३॥ सन्नेवाहं सदाप्यस्मि स्वरूपादिचतुष्टयात् । असनेवास्मि चात्यंतं पररूपाद्यपेक्षया ॥ १५४ ॥ यन्न चेतयते किंचिन्नाचतयत किंचन। यञ्चेतयिष्यते नैव तच्छरीरादि नास्म्यहं ॥ १५५ ॥ यदचेतत्तथा पूर्व चेतिष्यति यदन्यथा । चेतनीयं यदत्राध तच्चिद्व्यं समस्म्यहं ॥ १५६ ॥ स्वयमिष्टं न च द्विष्टं किन्तूपेक्ष्यमिदं जगत् । नोऽहमेष्टा न च द्वेष्टा किन्तु स्वयमुपेक्षिता ॥ १५७ ॥ मत्तः कायादयो भिन्नास्तेभ्योऽहमाप तत्त्वतः । नाऽहमेषां किमप्यस्मि ममाप्येते न किंचन ॥ १५८॥ एवं सम्यग्विनिश्चित्य स्वात्मानं भिन्नमन्यतः । विधाय तन्मयं भावं न किंचिदपि चिंतये ॥ १५९ ॥ चिंताभावो न जैनानां तुच्छो मिथ्याशामिव । दृग्बोधसाम्यरूपस्य यत्स्वसंवेदनं हि सः॥ १६०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy