________________
श्रीमन्नागसेनमुनिविरचितं
वेद्यत्वं वेदकत्वं च यत्स्वस्य स्वेन योगिनः । तत्स्वसंवेदनं प्राहुरात्मनोऽनुभवं दृशं ॥ १६९ ॥ स्वपरज्ञप्तिरूपत्वान्न तस्य कारणान्तरं ।
चिंतां परित्यज्य स्वसंवित्त्यैव वेद्यतां ॥ १६२ ॥ दृग्वोधसाम्यरूपत्वाज्जानन् पश्यत्रुदासिता । चित्सामान्यविशेषात्मा स्वात्मनैवानुभूयतां ॥ १६३ ॥ कर्मजेभ्यः समस्तेभ्यो भावेभ्यो भिन्नमन्वहं । ज्ञस्वभावमुदासीनं पश्येदात्मानमात्मना ॥ १६४ ॥ यन्मिथ्याभिनिवेशेन मिथ्याज्ञानेन चोज्झितं । तन्मध्यस्थं निजं रूपं स्वस्मिन्संवेद्यतां स्वयं ॥ १६५ ॥ न हीन्द्रियधिया दृश्यं रूपादिरहितत्वतः । वितर्कास्तन्न पश्यति ते ह्यविस्पष्टतर्कणाः ॥ १६६ ॥ उभयस्मिन्निरुद्धे तु स्याद्विस्पष्टमतींद्रियं । स्वसंवेद्यं हि तद्रूपं स्वसंवित्त्यैव दृश्यतां ॥ १६७ ॥ वपुषोऽप्रतिभासेऽपि स्वातंत्र्येण चकासते । चेतना ज्ञानरूपेऽयं स्वयं दृश्यत एव हि ॥ १६८ ॥ समाधिस्थेन यद्यात्मा बोधात्मा नानुभूयते । तदा न तस्य तद्ध्यानं मूर्छावान्मोह एव सः ॥ १६९ ॥ तदेवानुभवंश्चायमेकाग्र्यं परमृच्छति ।
तथात्माधीनमानंदमेति वाचामगोचरं ॥ १७० ॥
१५
यथा निर्वातदेशस्थः प्रदीपो न प्रकंपते ।
तथा स्वरूपनिष्ठोऽयं योगी नैकाग्र्यमुज्झति ॥ १७१ ॥
तदा च परमेकाग्रचाद्वहिरर्थेषु सत्स्वपि । अन्यन्न किंचनाभाति स्वमेवात्मनि पश्यतः ॥ १७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org