________________
तत्त्वानुशासनम् ।
अत एवान्यशून्योऽपि नात्मा शून्यः स्वरूपतः। शून्याशून्यस्वभावोऽयमात्मनैवोपलभ्यते ॥ १७३ ॥ ततश्च यजगुर्मुक्त्यै नैरात्म्याद्वैतदर्शनं। .. तदेतदेव यत्सम्यगन्यापोढात्मदर्शनं ॥ १७४ ॥ . परस्परपरावृत्ताः सर्वे भावाः कथंचन । नैरात्म्यं जगतो यद्वन्नैर्जगत्यं तथात्मनः ॥ १७५ ॥ अन्यात्माभावो नैरात्म्यं स्वात्मसत्तात्मकश्च सः। स्वात्मदर्शनमेवातः सम्यग्नैरात्म्यदर्शनं ॥ १७६ ॥ आत्मानमन्यसंपृक्तं पश्यन् द्वैतं प्रपश्यति । पश्यन् विभक्तमन्येभ्यः पश्यत्यात्मानमद्वयं ॥ १७७॥ पश्यन्नात्मानमैकाग्यात्क्षपयत्यार्जितान्मलान् ।। निरस्ताहममीभावः संवृणोत्यप्यनागतान् ॥ १७८ ॥ यथा यथा समाध्याता लप्स्यते स्वात्मनि स्थिति। समाधिप्रत्ययाश्चास्य स्फुटिष्यन्ति तथा तथा ॥ १७९॥ एतद्वयोरपि ध्येयं ध्यानयोर्धHशुक्लयोः। विशुद्धिस्वामिभेदात्तु तयोर्भेदोऽवधार्यतां ॥ १८० ॥ इदं हि दुःशकं ध्यातुं सूक्ष्मज्ञानावलंबनात् । . बोध्यमानमपि प्राज्ञैर्न च द्रागवलक्ष्यते ॥ १८१ ॥ तस्माल्लक्ष्यं च शक्यं च दृष्टादृष्टफलं च यत् । स्थूलं वितर्कमालंब्य तदभ्यस्यंतु धीधनाः ॥ १८२ ॥ आकारं मरुतापूर्य कुंभित्वा रेफवह्निना। दग्ध्वा स्ववपुषा कर्म स्वतो भस्म विरेच्य च ॥ १८३ ॥ हमंत्रो नभसि ध्येयः क्षरन्नमृतमात्मनि । तेनाऽन्यत्तद्विनिर्माय पीयूषमयमुज्वलं ॥ १८४ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org