SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीमन्नागसेनमुनिविरचितंतत्रादौ पिंडसिद्धयर्थ निर्मलीकरणाय च । मारुतीं तैजसीमाथां विदध्याद्धारणां क्रमात् ॥ १८५॥ ततः पंचनमस्कारैः पंचपिंडाक्षरान्वितैः । पंचस्थानेषु विन्यस्तैर्विधाय सकलां क्रियाम् ॥ १८६ ॥ पश्चादात्मानमर्हतं ध्यायेनिर्दिष्टलक्षणं । सिद्धं वा ध्वस्तकर्माणममूर्त ज्ञानभास्वरं ॥ १८७ ॥ नन्वनर्हतमात्मानमर्हतं ध्यायतां सतां। अतस्मिंस्तगृहो भ्रान्तिर्भवतां भवतीति चेत् ॥ १८८॥ तन्न चोद्यं यतोऽस्माभिर्भावार्हन्नयमर्पितः। स चाहद्ध्याननिष्ठात्मा ततस्तत्रैव तद्गृहः ॥ १८९ ॥ परिणमते येनात्मा भावेन स तेन तन्मयो भवति । अर्हद्धयानाविष्टो भावार्हः स्यात्स्वयं तस्मात् ॥ १९०॥ येन भावेन यदूपं ध्यायत्यात्मानमात्मवित् । तेन तन्मयतां याति सोपाधिः स्फटिको यथा॥ १९१ ॥ अथवा भाविनो भूताः स्वपर्यायास्तदात्मकाः। आसते द्रव्यरूपेण सर्वद्रव्येषु सर्वदा ॥ १९२ ॥ ततोऽयमहत्पर्यायो भावी द्रव्यात्मना सदा । भव्यष्वास्ते सतश्चास्य ध्याने को नाम विभ्रमः॥ १९३॥ किंच भ्रांतं यदीदं स्यात्तदा नातः फलोदयः । नहि मिथ्याजलाज्जातु विच्छित्तिर्जायते तृषः ॥ १९४॥ प्रादुर्भवंति चामुष्मात्फलानि ध्यानवर्तिनां । धारणावशतः शान्तकूररूपाण्यनेकधा ॥ १९५ ॥ गुरूपदेशमासाद्य ध्यायमानः समाहितैः ।। अनंतशक्तिरात्मायं मुक्तिं भुक्तिं च यच्छति ॥ १९६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy