________________
तत्त्वानुशासनम् ।
ध्यातोऽर्हत्सिद्धरूपेण चरमाङ्गस्य मुक्तये। तद्ध्यानोपात्तपुण्यस्य स एवान्यस्य भुक्तये ॥१९७॥ ज्ञानं श्रीरायुरारोग्यं तुष्टिपुष्टिवपुतिः। यत्प्रशस्तमिहान्यच्च तत्तद्धचातुः प्रजायते ॥१९८॥ तयानाविष्टमालोक्य प्रकंपन्ते महाग्रहाः । नश्यन्ति भूतशाकिन्यः क्रूराः शाम्यति च क्षणात्॥१९९।। यो यत्कर्म प्रभुर्देवस्तद्धयानाविष्टमात्मनः। ध्याता तदात्मको भूत्वा साधयत्यात्मवांछितं ॥२०॥ पार्श्वनाथो भवन्मंत्री सकलीकृतविग्रहः । महामुद्रां महामंत्रं महामंडलमाश्रितः ॥ २०१॥ तेजस्वीप्रभृतिर्बिभ्रद्वारणाश्च यथोचितं । निग्रहादीनुग्राणां ग्रहाणां कुरुते द्रुतं ॥ २०२॥ स्वयमाखंडलो भूत्वा महामंडलमध्यगः। किरीटकुंडली वज्री पीतमूषाम्बरादिकः ॥ २०३ ॥ कुंभकीस्तंभमुद्राद्यास्तंभनं मंत्रमुच्चरन् । स्तंभकार्याणि सर्वाणि करोत्येकाग्रमानसः ॥ २०४॥ स स्वयं गरूडीभूय क्ष्वेडं क्षपयति क्षणात् । कंदर्पश्च स्वयं भूत्वा जगन्नयति वश्यतां ॥ २०५॥ एवं वैश्वानरो भूयं ज्वलज्ज्वालाशताकुलः । शीतज्वरं हरत्याशु व्याप्य ज्वालाभिरातुरं॥२०६॥ स्वयं सुधामयो भूत्वा वर्षन्नमृतमातुरे । अथैतमात्मसाकृत्य दाहज्वरमपास्यति ॥ २०७ ॥ क्षीरोदधिमयो भूत्वा प्लावयन्नखिलं जगत् । शांतिक पौष्टिकं योगी विदधाति शरीरिणाम् ॥ २०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org