________________
श्रीमन्नागसेनमुनिविरचितं
किमत्र बहुनोक्तेन यद्यत्कर्म चिकीर्षति । तद्देवतामयो भूत्वा तत्तन्निर्वर्तयत्ययम् ॥ २०९ ॥ शांते कर्म्मणि शांतात्मा क्रूरे क्रूरो भवन्नयं । शांतराणि कर्माणि साधयत्येव साधकः ॥ २१० ॥ आकर्षणं वशीकारः स्तंभनं मोहनं द्रुतिः । निर्विषीकरणं शांतिविद्वेषोच्चाटनिग्रहाः ॥ २११ ॥ एवमादीनि कार्याणि दृश्यन्ते ध्यानवर्तिनां । ततः समरसीभावसफलत्वान्न विभ्रमः ॥ २१२ ॥ यत्पुनः पूरणं कुंभो रेचनं दहनं लवः । सकलीकरणं मुद्रामंत्रमंडलधारणाः ॥ २१३ ॥ कर्माधिष्ठातृदेवानां संस्थानं लिंगमासनं । प्रमाणं वाहनं वीर्य जातिर्नामद्युतिर्दिशा ॥ २१४ ॥ भुजवत्रनेत्र संख्यां भावः क्रूरस्तथेतरः । वर्णस्पर्शस्वरोऽवस्था वस्त्रं भूषणमायुधं ॥ २१५ ॥ एवमादि यदन्यच्च शांतकराय कर्मणे । मंत्रवादादिषु प्रोक्तं तद्ध्यानस्य परिच्छदः ॥ २१६ ॥ यात्रिकं फलं किंचित्फलमामुत्रिकं च यत् । एतस्य द्वितयस्यापि ध्यानमेवाग्रकारणं ॥ २१७ ॥ ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् । गुरूपदेशः श्रद्धानं सदाभ्यासः स्थिरं मनः ॥ २९८ ॥ अत्रैवमाग्रहं कार्षुर्यद्वयानफलमैहिकं । इदं हि ध्यानमाहात्म्यख्यापनाय प्रदर्शितं ॥ २१९ ॥ यद्वयानं रौद्रमार्त्त वा यरैहिकफलार्थिनां । तस्मादेतत्परित्यज्य धम्र्म्य शुक्लमुपास्यतां ॥ २२० ॥
Jain Education International
Aw
For Private & Personal Use Only
१९
www.jainelibrary.org