SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २० तत्त्वानुशासनम् । तत्त्वज्ञानमुदासीनमपूर्वकरणादिषु । शुभाशुभमलापायाद्विशुद्धं शुक्लमभ्यधुः ॥ २२१ ॥ शुचिगुणयोगाच्छुक्लं कषायरजसः क्षयादुपशमाद्वा। माणिक्यशिखावदिदं सुनिर्मलं निःप्रकंपं च ॥ २२२ ॥ रत्नत्रयमुपादाय त्यक्त्वा बंधनिबंधनं । ध्यानमभ्यस्यतां नित्यं यदि योगिन्मुमुक्षसे ॥ २२३ ॥ ध्यानाभ्यासप्रकर्षेण तुद्यन्मोहस्य योगिनः । चरमांगस्य मुक्तिः स्यात्तदा अन्यस्य च क्रमात् ॥ २२४ । तथा ह्यचरमांगस्य ध्यानमभ्यस्यतः सदा । निर्जरासंवरश्च स्यात्सकलाशुभकर्मणां ॥ २२५ ॥ आस्रवन्ति च पुण्यानि प्रचुराणि प्रतिक्षणं । यैर्महर्द्धिर्भवत्येष त्रिदशः कल्पवासिषु ॥ २२६ ॥ तत्र सर्वेन्द्रियामोदि मनसः प्रीणनं परं । सुखामृतं पिबन्नास्ते सुचिरं सुरसेवितः ॥ २२७ ॥ ततोऽवतीर्य मत्येपि चक्रवर्त्यादिसंपदः ।। चिरं भुक्त्वा स्वयं मुक्त्वा दीक्षां देंगंबरीं श्रितः ॥२२८॥ वज्रकायः स हि ध्यात्वा शुक्लध्यानं चतुर्विधं । विधूयाष्टापि कर्माणि श्रयते मोक्षमक्षयं ॥ २२९ ॥ आत्यंतिकः स्वहेतोर्यो विश्लेषो जीवकर्मणाः । स मोक्षः फलमेतस्य ज्ञानाद्याः क्षायिका गुणाः ॥ २३०। कर्मबंधनविध्वंसादूचं व्रज्यास्वभावतः । क्षणेनैकेन मुक्तात्मा जगच्चूडाग्रमृच्छति ॥ २३१ ॥ पुंसः संहारविस्तारौ संसारे कर्मनिर्मितौ। मुक्तौ तु तस्य तौ नस्तः क्षयात्तद्धेतुकर्मणां ॥ २३२ ।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy