SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीमन्नागसेनमुनिविरचितं २१ ततः सोऽनंतरत्यक्तस्वशरीरप्रमाणतः।। किंचिदूनस्तदाकारस्तत्रास्ते स्वगुणात्मकः ॥ २३३ ॥ स्वरूपावस्थितिः पुंसस्तदा प्रक्षीणकर्मणः । नाभावो नाप्यचैतन्यं न चैतन्यमनर्थकं ॥ २३४ ॥ स्वरूपं सर्वजीवानां स्वपरस्य प्रकाशनं । भानुमंडलवत्तेषां परस्मादप्रकाशनं ॥ २३५ ॥ तिष्ठत्येव स्वरूपेण क्षीणे कर्मणि पौरुषः। यथा मणिस्वहेतुम्यः क्षीणे सांसर्गिके मले ॥ २३६ ॥ न मुह्यति न संशेते न स्वार्थानध्यवस्यति । न रज्यते न च द्वेष्टि किंतु स्वस्थः प्रतिक्षणं ॥ २३७ ॥ त्रिकालविषयं ज्ञेयमात्मानं च यथास्थितं । जानन् पश्यंश्च निःशेषमुदास्ते स तदा प्रभुः ॥ २३८ ॥ अनंतज्ञानदृग्वीर्यवैतृष्ण्यमयमव्ययं । सुखं चानुभवत्येष तत्रातींद्रियमच्युतः ॥ २३९ ॥ ननु चाक्षैस्तदर्थानामनुभोक्तुः सुखं भवेत् । अतीन्द्रियेषु मुक्तेषु मोक्षे तत्कीदृशं सुखं ॥२४०॥ इति चेन्मन्यसे मोहात्तन्न श्रेयो मतं यतः । नाद्यापि वत्स त्वं वेत्सि स्वरूपं सुखदुःखयोः ॥ २४१ ॥ आत्मायत्तं निराबाधमतींद्रियमनश्वरं । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः ॥ २४२॥ यत्तु संसारिकं सौख्यं रागात्मकमशाश्वतं । स्वपरद्रव्यसंभूतं तृष्णासंतापकारणं ॥ २४३ ॥ . मोहद्रोहमदक्रोधमायालोभनिबंधनं । दुःखकारणबंधस्य हेतुत्वाद्दुःखमेव तत् ॥ २४४ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org ww
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy