________________
२२
तत्त्वानुशासनम् ।
तन्मोहस्यैव माहात्म्यं विषयेभ्योऽपि यत् सुखं । यत्पटोलमपि स्वादु श्लेष्मणस्तद्विजृंभितं ॥ २४५ ॥ यदत्र चक्रिणां सौख्यं यच्च स्वर्गे दिवौकसां । कलयापि न तत्तुल्यं सुखस्य परमात्मनां ॥ २४६ ॥ अत एवोत्तमो मोक्षः पुरुषार्थेषु पठ्यते । स च स्याद्वादिनामेव नान्येषामात्मविद्विषां ॥ २४७ ॥ यद्वा बंधच मोक्षश्च तद्धेतू च चतुष्टयं । नास्त्येवैकांतरक्तानां तद्व्यापकमनिच्छतां ॥ २४८ ॥ अनेकांतात्मकत्वेन व्याप्तावत्र क्रमाक्रमौ । ताभ्यामर्थक्रिया व्याप्ता तयास्तित्वं चतुष्टये ॥ २४९ ॥ मूलव्यातुर्निवृत्तौ तु क्रमाक्रमनिवृत्तितः । क्रियाकारकयोभ्रंशान्न स्यादेतच्चतुष्टयं ॥ २५० ॥ ततो व्याप्ता समस्तस्य प्रसिद्धश्च प्रमाणतः । चतुष्टयसदिच्छद्भिरनेकांतोऽवगम्यतां ॥ २५१ ॥ सारश्चतुष्टयेप्यस्मिन्मोक्षः सद्ध्यानपूर्वकः । इति मत्वा मया किंचिद्ध्यानमेव प्रपंचितं ॥ २५२ ॥ यद्यप्यत्यंत गंभीरमभूमिर्मा शामिदम् । प्रावतिषि तथाप्यत्र ध्यानभक्तिप्रचोदितः ॥ २५३ ॥ यत्र स्खलितं किंचिच्छाद्मस्थ्यादर्थशब्दयोः । तन्मे भक्तिप्रधानस्य क्षमतां श्रुतदेवता ॥ २५४ ॥ वस्तुयाथात्म्य विज्ञानश्रद्धानध्यानसंपदः । भवंतु भव्यसत्त्वानां स्वस्वरूपोपलब्धये ॥ २५५ ॥ श्रीवीरचन्द्रशुभदेवमहेंद्रदेवाः शास्त्राय यस्य गुरुवो विजयामरश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org