________________
श्रीमन्नागसेन मुनिविरचितं तत्त्वानुशासनम् ।
दीक्षागुरुः पुनरजायत पुण्यमूर्तिः श्रीनागसेनमुनिरुद्यचरित्रकीर्तिः ॥ २५६ ॥ तेन प्रवृद्धधिषणेन गुरूपदेशमासाद्य सिद्धिसुखसंपदुपायभूतं । तत्त्वानुशासनमिदं जगतो हिताय श्रीनागसेन विदुषा व्यरचि स्फुटार्थे ॥ २५७ ॥ जिनेंद्रा: सद्ध्यानज्वलनहुतघातिप्रकृतयः प्रसिद्धाः सिद्धाश्च प्रहततमसः सिद्धिनिलयाः । सदाचार्या वर्याः सकलसदुपाध्यायमुनयः । पुनंतु स्वांतं नस्त्रिजगदधिकाः पंच गुरुवः ॥ २५८ ॥ देहज्योतिषि यस्य मज्जति जगत् दुग्धांबुराशाविव ज्ञानज्योतिषि च स्फुटत्यतितरामों भूर्भुवःस्वस्त्रयी | शब्दज्योतिषि यस्य दर्पण इव स्वार्थाश्चकासंत्यमी स श्रीमानमरार्थितो जिनपतिज्योंतिस्त्रयायास्तु नः ॥२५९॥ इति श्रीमन्नागसेनमुनिविरचितः तत्त्वानुशासनसिद्धान्तः समाप्तः ।
Jain Education International
For Private & Personal Use Only
२३
www.jainelibrary.org