SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २४ श्रीमत्पूज्यपादस्वामिविरचितः श्रीमत्पूज्यपादस्वामिविरचितः इष्टोपदेशः । श्रीपण्डित - आशाधर - कृतसंस्कृतटीकासमेतः । 00/00 टीकाकारस्य मंगलाचरणम् । परमात्मानमानम्य मुमुक्षुः स्वात्मसंविदे । इष्टोपदेशमाचष्टे स्वशक्त्याशाधरः स्फुटम् ॥ तत्रादौ यो यगुणार्थी स तद्गुणोपेतं पुरुषविशेषं नमस्करोतीति परमात्मगुणार्थी ग्रंथकर्ता परमात्मानं नमस्करोति, तयथा; - यस्य स्वयं स्वभावाप्तिरभावे कृत्स्नकर्मणः । तस्मै संज्ञानरूपाय नमोऽस्तु परमात्मने ॥ १ ॥ अस्तु भवतु । किं तन्नमः नमस्कारः कस्मै, तस्मै परमात्मने । परम अनाध्येया प्रदेयातिशयत्वात्सकलसंसारिजीवेभ्य उत्कृष्ट आत्मा चेतन: परमात्मा तस्मै । किंविशिष्टाय, संज्ञानरूपाय सम्यक्सकलार्थसाक्षात्कारित्वादितदत्यन्तसूक्ष्मत्वादीनामपि लाभात्कर्महंतृत्वादेरपि विकारस्य त्यागाच्च संपूर्णज्ञानं स्वपरावबोधस्तदेव रूपं यस्य तस्मै । एवमाराध्यस्वरूपमुक्त्वा तत्प्राप्त्युपायमाह । यस्याभूत्कासौ स्वभावाप्तिः स्वभावस्य निर्मलनिश्चलचिद्रूपस्य आप्तिर्लब्धिः कथंचित्तादात्म्यपरिणतिः । कृतकृत्यतया स्वरूपेऽवस्थितिरित्यर्थः । केन, स्वयं संपूर्णरत्नत्रयात्मनात्मना । क्व सति, अभावे शक्तिरूपतया विनाशे । कस्य, कृत्स्नकर्मणः । कृत्स्नस्य सकलस्य द्रव्येभावरूपस्य कर्मण आत्मपारतंत्र्यनिमित्तस्य ॥ १ ॥ १ अनारोपि अप्रतिहत- । २ ज्ञानावरणादिद्रव्यकर्माणि, रागद्वेषादयो भावकर्माणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy