________________
इष्टोपदेशः ।
अथ शिष्यः प्राह स्वस्य स्वयं स्वरूपोपलब्धिः कथमिति स्वस्यात्मनः स्वयमात्मना स्वरूपस्य सम्यक्त्वा दिगुणाष्टकाभिव्यक्तिरूपस्य उपलब्धिः कथं केनोपायेन दृष्टांताभावादिति । अत्राचार्यः समाधत्ते;योग्योपादानयोगेन दृषदः स्वर्णता मता ।
द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता ॥ २ ॥ मता अभिप्रेता लोकैः । कासौ, स्वर्णता सुवर्णभावः । कस्य, दृषदः सुवर्णाविर्भाव योग्यपाषाणस्य । केन, योग्यानां सुवर्णपरिणामकरणोचितानां उपादानानां कारणानां योगेन मेलापकेन संपत्त्या यथा । एवमात्मनोऽपि पुरुषस्यापि न केवलं दृषद इत्यपि शब्दार्थः । मता कथिता । कासौ, आत्मता । आत्मनो जीवस्य भावो निर्मल निश्चल चैतन्यं । कस्यां सत्यां द्रव्यादि- स्वादिसंपत्तौ द्रव्यमन्वयिभावः आदिर्येषां क्षेत्रकालभावानां ते च ते स्वादयश्व सुशब्दः स्वशब्दो वा आदिर्येषां ते स्वादयो द्रव्यादयश्च स्वादयश्व । इच्छातो विशेषणविशेष्यभावः इति समासः । सुद्रव्यं सुक्षेत्रं 'सुकालः सुभाव इत्यर्थः । सुशब्दः प्रशंसार्थः । प्राशस्त्यं चात्र प्रकृतकार्येप - योगित्वं द्रव्यादिस्वादीनां संपत्ति: संपूर्णता तस्यां सत्यां ।
अथ शिष्यः प्राह - तर्हि व्रतादीनामानर्थक्यमिति । भगवन् यदि सुद्रव्यादिसामग्यां सत्यामेवायमात्मा स्वात्मानमुपलप्स्यते तर्हि व्रतानि हिंसाविरत्यादीनि आदयो येषां समित्यादीनां तेषामानर्थक्यं निःफलत्वं स्यादभिप्रेतयाः स्वात्मोपलब्धेः सुद्रव्यादिसंपत्त्यपेक्षत्वादित्यर्थः । अत्राचार्यो निषेधमाह - तन्नेति । वत्स ! यत्त्वया शंकितं व्रतादीनामानर्थक्यं तन्न भवति । तेषामपूर्वशुभकर्म निरोधेनोपार्जिताशुभ कर्मैकदेशक्षपणेन च सफलत्वात्तद्विषयरागलक्षणशुभोपयोगजनितपुण्यस्य च स्वर्गादिपदप्राप्तिनिमित्तत्वादेव च व्यक्तीकन्तु वक्ति;
२५
१ मेलापकेन । २ कय सामग्र्यां विद्यमानायां । ३ प्रारब्धकार्यसाधकत्वं । ४ वांछितायाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org