SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीमत्पूज्यपादस्वामिविरचितः वरं व्रतैः पदं देवं नाव्रतैर्बत नारकं । छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ॥ ३ ॥ वरं भवतु । किं तत्पदं स्थानं । किंविशिष्टं, दैवं देवानामिदं दैवं स्वर्गः कैर्हेतुभिर्वतैर्वतादिविषयरागजनितपुण्यैः तेषां स्वर्गादिपदाभ्युदयनिबंधत्वेन सकलजनसुप्रसिद्धत्वात् तीऽव्रतान्यपि तथाविधानि भविष्यतीत्याशंक्याह । नेत्यादि । न वरं भवति । किं तत्पदं । किंविशिष्टं, नारकं नरकसंबंधि। कैः, अव्रतैः हिंसादिपरिणामजनितपातकैः बतेति खेदे कष्टे वा । तर्हि व्रतावतनिमित्तयोरपि देवनारकपक्षयोः साम्यं भविष्यतीत्याशंकायां तयोर्महदंतरमिति दृष्टांतेन प्रकटयन्नाह । छायेत्यादि । भवति। कोऽसौ, भेदः अंतरं। किंविशिष्टो, महान् बृहत् । कयोः, पथिकयोः। किं कुर्वतोः, स्वकार्यवशान्नगरांतर्गतं तृतीयं स्वसार्थिकमागच्छंतं पथि प्रतिपालयतोः प्रतीक्षमाणयोः । किं विशिष्टयोः सतोः, छायातपस्थयोः छाया च आतपश्च छायातपौ तयोः स्थितयोः। अयमों यथैव छायास्थितस्तृतीयागमनकालं यावत्सुखेन तिष्ठति आतपस्थितश्च दुःखेन तिष्ठति तथा व्रतादिकृतानि स आत्मा जीवः सुद्रव्यादयो मुक्तिहेतवो यावत्संपद्यते तावत्स्वर्गादिपदेषु सुखेन तिष्ठति अन्यश्च नरकादिपदेषु दुःखेनेति । अथ विनेयः पुनराशंकते । एवमात्मनि भक्तिरयुक्ता स्यादिति भगवनैवं चिरभाविमोक्षसुखस्य व्रतसाध्ये संसारसुखे सिद्धे सत्यात्मनि चिद्रूपे भक्तिर्भावविशुद्ध आंतरोऽनुरागो अयुक्ता अनुपपन्ना स्याद्भवेत् तत्साध्यस्य मोक्षसुखस्य सुद्रव्यादिसंपत्त्यपेक्षया दूरवर्ति त्वादवांतरप्राप्यस्य च स्वर्गादिसुखस्य व्रतैकसाध्यत्वात् । अत्राप्याचार्यः समाधत्ते । तदपि नेति न केवलं व्रतादिनामानर्थक्यं न भवेत् किं तर्हि तदप्यात्मभक्तयनुपंपत्तिप्रकाशनमपि त्वया क्रियमाणं न साधुः स्यादित्यर्थः । यतः-- १ मध्यलभ्यस्य । २ अयुक्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy