SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः। यत्र भावः शिवं दत्ते द्यौः कियदरवर्तिनी। यो नयत्याशु गव्यूति क्रोशार्दू किं स सीदति ॥४॥ यत्रात्मनि विषये प्रणिधाने भावः कर्ता दत्ते प्रयच्छति । किं तच्छिवं मोक्षं भावुकाय भव्यायेति शेषः । तस्यात्मविषयस्य शिवदानसमर्थस्य भावस्य द्यौः स्वर्गः कियद्रवर्तिनी कियटूरे किंपरिमाणे व्यवहितदेशे वर्तते ? निकट एव तिष्ठतीत्यर्थः । स्वात्मध्यानोपात्तपुण्यस्य तदेकफलत्वात् । तथा चोक्तं " गुरूपदेशमासाद्य ध्यायमानः समाहितैः । अनंतशक्तिरात्मायं मुक्तयं भुक्तयं च यच्छति ॥ ध्यातोर्हत्सिद्धरूपेण चरमांगस्य मुक्तये ।। तद्ध्यानोपात्तपुण्यस्य स एवान्यस्य भुक्तये" ॥ अमुमेवार्थ दृष्टांतेन स्पष्टययन्नाह-य इत्यादि ।यो वाहीको नयति प्रापयति किं स्वबाह्य भारं। कां, गव्यूति कोशयुगं । कथं, आशु शीघ्रंस किं क्रोशार्द्ध स्वभारं नयन सीदति खिद्यते ? न खिद्यत इत्यर्थः । महाशक्तावल्पशक्तेः सुघटत्वात् । अथैवमात्मभक्तेः स्वर्गगतिसाधनत्वेऽपि समर्थिते प्रतिपाद्यस्तत्फलजिज्ञासया गुरुं पृच्छति स्वर्गे गतानां किं फलमिति स्पष्टं गुरुरुत्तरयति; हृषीकजमनातंकं दर्घिकालोपलालितम् । नाके नाकोकसां सौख्यं नाके नाकोकसामिव ॥५॥ वत्स अस्ति । किं तत्सौख्यं शर्म । केषां, नाकौकसां देवानां न पुनः स्वर्गेऽपि जातानामेकेंद्रियाणां । क वसतां, नाके स्वर्गे न पुनः क्रीडादिव-. शाद्रमणीयपर्वतादौ । किमतींद्रियं तन्नेत्याह-हृषीकजं हृषीकेभ्यः समीहितानंतरमुपस्थितं निजं निजं विषयमनुमवद्भ्यः स्पर्शनादींद्रियेभ्यः सर्वा १ वाह्य । २ शिष्यः । ३ ज्ञातुमिछया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy