SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८ श्रीमत्पूज्यपादस्वामिविरचितः गीणाल्हादनाकरतया प्रादुर्भूतं तथा राज्यादिसुखवत्सातकं भविष्यतीत्याशंकापनोदार्थमाह । अनातंकं न विद्यते आतंकः प्रतिपक्षादिकृतश्चित्तक्षोभो यत्र तथापि भोगभूमिजसुखवदल्पकालभोग्यं भविष्यतीत्याशंकायामाह । दीर्घकालोपलालितं दीर्घकालं सागरोपमपरिछन्नकालं यावदुपलालितमाताविधेयदेवदेवीस्वविलासिनीभिः क्रियमाणोपचारत्वादुत्कर्ष प्रापितं तर्हि क केषामिव तदित्याह, नाके नाकौकसामिव स्वर्गे देवानां यथा अनन्योपममित्यर्थः । अत्र शिष्यः प्रत्यवतिष्ठते यदि स्वर्गेऽपि सुखमुत्कृष्टं किमपवर्गप्रार्थ. नयेति । भगवन् यदि चेत् स्वर्गेऽपि न केवलमपवर्गे सुखमस्ति कीदृशं उत्कृष्ट मादिसुखातिशायि तर्हि किं कार्य कया अपवर्गस्य मोक्षस्य प्रार्थनया अपवर्गो मे भूयादित्याभिलाषेण । एवं च संसारसुखे एव निबंधं कुर्वन्तं प्रबोध्यं तत्सुखदुःखस्य भ्रांतत्वप्रकाशनाय आचार्यः प्रबोधयति;-- वासनामात्रमेवैतत्सुखं दुःखं च देहिनां। तथा खुद्वेजयंत्येते भोगा रोगा इवापदि ॥ ६ ॥ एतत् प्रतीयमानौंद्रियकं सुखं दुःखं चास्ति कीदृशं वासनामात्रमेव जीवस्योपकारकत्वापकारकत्वाभावेन परमार्थतो देहादावुपेक्षणीये तत्त्वानवबोधादिदं ममेष्टमुपकारकत्वादिदं चानिष्टमपकारकत्त्वादिति विभ्रमाज्जातः संस्कारो वासना इष्टानिष्टार्थानुभवानंतरमुद्भूतः स्वसंवेद्य आभिमानिकः परिणामः । वासनैव न स्वाभाविकमात्मस्वरूपमित्यन्ययोगव्यवच्छेदार्थो मात्र इति स्वयोगव्यवस्थापकश्चैव शब्दः । केषामेतदेव भूतमस्तीत्याह । देहिनां देह एवात्मत्वेन गृह्यमाणोस्तीति देहिनो बहिरात्मानस्तेषां एतदेव समर्थयितुमाह । तथाहीत्यादि । उक्तार्थस्य दृष्टांतेन समर्थनार्थस्तथाहीति १ सर्वमंग व्याप्नोति । २ आदेशवशवर्ति। ३ सेवा। ४ पूर्वपक्षं करोति । ५ हठं । ६ शिष्यं । ७ त्यजनाये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy