________________
इष्टोपदेशः।
शब्दः । उद्देजयंति उद्वेगं कुर्वन्ति न सुखयन्ति के ते, एते सुखजनकत्वेनं लोके प्रतीता भोगाः रमणीयरमणीप्रमुखाः इंद्रियार्थाः । क इव, रोगा इव: ज्वरादिव्याधयो यथा । कस्यां सत्यामापदि दुर्निवारवैरिप्रभृतिसंपादितदौर्मनस्यलक्षणायां विपदि । तथाचोक्तम्
" मुंचांगं ग्लपयस्यलं क्षिप कुतोऽथक्षाश्च विदूभात्यदो दूरे धेहि न हृष्य एष किमभूरन्या न वेत्सि क्षणम् । स्थेयं चेद्धि निरुद्धि गामिति तवोद्योगे द्विषः स्त्री क्षिपंत्याश्लेषक्रमुकांगरागललितालापौर्वधित्सू रतिम् ॥" अपि च
" रम्यं हयं चंदनं चंद्रपादा वेणुवीणा यौवनस्था युवत्यः । नैते रम्या क्षुत्पिपासार्दितानां
सर्वारंभास्तंदुलाप्रस्थमूलाः ॥" तथा । आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यमित्यादि । अतो ज्ञायते ऐंद्रियकं सुखं वासनामात्रमेव नात्मनः स्वाभाविकानाकुलत्वस्वभावं । कथमन्यथा लोके सुखजनकत्वेन प्रतीतानामपि भावानां दुःखहेतुत्वं । एवं दुःखमपि । अत्राह पुनः शिष्यः-एते सुखदुःखे खलु वासनामात्रे कथं न लक्ष्यते इति । खल्विति वाक्यालंकारे निश्चये वा। कथं केन प्रकारेणन लक्ष्येते न संवेद्यते लोकैरिति शेषः । शेषं स्पष्टम् । अत्राचार्यः प्रबोधयति;मोहेन संवृतं ज्ञानं स्वभावं लभतें न हि । मत्तः पुमान्पदार्थानां यथा मदनकोद्रवैः ॥ ७॥
१ आच्छादितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org