________________
श्रीमत्पूज्यपादस्वामिविरचितः
न हि नैव लभते परिछिनत्ति धातूनामनेकार्थत्वाल्लभेानेपि वृत्तिस्तथावल्लोको वक्ति मयास्य चित्तं लब्धमिति । किं तत् कर्तृ, ज्ञानं धर्मधर्मिणोः कथंचित्तादात्म्यादर्थग्रहणव्यापारपरिणत आत्मा । कं, स्वभावं स्वो साधारणो अन्योऽन्यव्यतिकरे सत्यपि व्यक्त्यंतरेभ्यो विवक्षितार्थस्य व्यावृत्तप्रत्ययहेतुर्भावो धर्मः स्वभावस्तं । केषां, पदार्थानां सुखदुःखशरीरादीनां । किंविशिष्टं सत् ज्ञानं, संवृत्तं प्रच्छादितं वस्तुयाथात्म्यप्रकाशने आभभूतसामर्थ्य । केन, मोहेन मोहनीयकर्मणो विपाकेन । तथा चोक्तम्
“ मलविद्धमणेर्व्यक्तिर्यथा नैकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथा नैकप्रकारतः ॥" नन्वमूर्तस्यात्मनः कथं मूतेन कर्मणाभिभवो युक्त इत्यत्राह । मत्त इत्यादि यथा नैव लभते। कोऽसौ, पुमान व्यवहारी पुरुषः। कं, पदार्थानां घटपटादीनां स्वभावं । किंविशिष्टः सन्, मत्तः जनितमदः। कैर्मदनकोद्रवः । पुनराचार्य एव प्राह विराधक इत्यादि । यावत् स्वभावमनासादयन् विसदृशान्यवगच्छतीति । शरीरादीनां स्वरूपमलभमानः पुरुषः शरीरादीनि अन्यथाभूतानि प्रतिपयत इत्यर्थः । अमुमेवार्थ स्फुटयति;वपुर्टहं धनं दाराः पुत्रा मित्राणि शत्रवः ।
सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥ ८॥ प्रपद्यते । कोसौ, मूढः स्वपरविवेकज्ञानहीनः पुमान् । कानि, वपुर्घ्यहादीनि वस्तूनि । किंविशिष्टानि, स्वानि स्वश्चात्मा स्वानि चात्मीयानि स्वानि । एकशेषश्रयणादेकस्य स्वशब्दस्य लोपः । अयमर्थो दृढतममोहाविष्टो देहादिकमात्मानं प्रपद्यते । आत्मत्वेनाभ्युपगच्छति । दृढतरमोहाविष्टश्च आत्मीयत्वेन । किंविशिष्टानि संति स्वानि प्रपद्यत इत्याह । सर्वथान्यस्वभावानि सर्वेण द्रव्यक्षेत्रकालभावलक्षणेन प्रकारेण स्वस्वभावादन्यो भिन्नः स्वभावो
१ विजातीयेभ्योऽन्यपदार्थेभ्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org