SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः। येषां तानि । किं किमित्याह । वपुः शरीरं तावदचेतनत्वादिस्वभावं प्रसिद्धमस्ति । एवं गृहं धनं दाराः भार्याः पुत्राः आत्मजाः मित्राणि सुहृदः शत्रवो मित्राः । अत्र हितवर्गमुद्दिश्य दृष्टान्तः । अत्रैतेषु वपुरादिषु मध्ये हितानामुपकारकाणां दारादीनां वर्गो गणस्तमुद्दिश्य विषयीकृत्य दृष्टान्त उदाहरणं प्रदर्श्यते । अस्माभिरिति शेषः । तद्यथा;दिग्देशेभ्यः खगा एत्य संवसंति नगे नगे। स्वस्वकार्यवशायांति देशे दिक्षु प्रगे प्रगे ॥९॥ संवसंति मिलित्वा रात्रि यावन्निवासं कुर्वन्ति । के ते, खगाः पक्षिणः । कक्क, नगे नगे वृक्षे वृक्षेत किं कृत्वा, एत्य आगत्य। केभ्यो, दिग्देशेभ्यः दिशः पूर्वादयो दिश देशस्तत्स्थैकदेशो अंगवंगादयस्तेभ्योऽवधिकृतेभ्यः तथा यांति गच्छन्ति।के ते खगाः। कासु, दिक्ष दिग्देशेष्विति प्राप्तेर्विपर्ययनिर्देशो गमननियमनिवृत्त्यर्थस्तेन यो यस्यामव दिशि गच्छति यश्च यस्माद्देशादायातः स तस्मिन्नेव देशे गच्छतीति नास्ति नियमः। किं तर्हि, यत्र क्वापि यथेच्छं गच्छंतीत्यर्थः । कस्मात्, स्वस्वकार्यवशात् निजनिजकरणीयपारतंत्र्यात् । कदा कदा, प्रगे प्रगे प्रातः प्रातः । एवं संसाणिो जीवा अपि नरकादिगतिस्थानेभ्य आगत्य कुले स्वायुःकालं यावत् संभूय तिष्ठति तथा निजनिजपारतंत्र्यात् देवगत्यादिस्थानेष्वनियमेन स्वायुःकालान्ते गछन्तीति प्रतीहि । कथं भद्र तव दारादिषु हितबुद्ध्या गृहीतेषु सर्वथान्यस्वभावेषु आत्मात्मीयभावः ? यदि खल्वेतदात्मकाः स्युः तदा त्वयि तदवस्थ एव कथमवस्थान्तरं गच्छेयुः यदि च एते तावकाः स्युस्तर्हि कथं । क प्रयोगमंतरेणैव यत्र कापि प्रयांतीति मोहग्रहावेशमपसार्य यथावत्पश्यति दार्टीते दर्शनीयं। अहितवर्गेऽपि दृष्टान्तः प्रदर्श्यते अस्माभिरिति योज्यम्; विराधकः कथं हंत्रे जनाय परिकुप्यति। व्यंगुलं पातयन्पद्यां स्वयं दंडेन पात्यते ॥१०॥ १ पराधीनतया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy