________________
श्रीमत्पूज्यपादस्वामिविरचितः
कथमित्यरुचौ न श्रद्दधे कथं परिकुप्यति समंतात् क्रुध्यति । कोऽसौ, वि. राधकःअपकारकर्ता जनः । कस्मै, हंत्रे जनाय प्रत्यपकारकाय लोकाय ।
" सुखं वा यदि वा दुःखं येन यश्च कृतं भुवि ।
अवाप्नोति स तत्तस्मादेष मार्गः सुनिश्चितः ॥” इत्यभिधानादन्योय्यमेतदिति भावः । अत्र दृष्टान्तमाचष्टे । अंगुलमित्यादि पात्यते भूमौ क्षिप्यते । कोऽसौ, यः कश्चिदसमीक्ष्यकारी जनः । केन, दंडेन हस्तधार्यकाष्ठेन कथं स्वयं पात्य प्रेरणमंतरणैव । किं कुर्वन, पातयन् भूमिं प्रति नामयन् । किं तत्, व्यंगुलं अंगुलित्रयाकारं कचाराद्याकर्षणावयवं । काभ्यां, पद्भ्यां पादाभ्यां ततोऽहिते प्रीतिरहिते चाप्रीतिः स्वहितैषिणा प्रेक्षावता न करणीया।
अत्र विनेयः पृच्छति । हिताहितयो रागद्वेषौ कुर्वन् किं कुरुते इति दारादिषु रागं शत्रुषु च द्वेषं कुर्वाणः पुरुषः किमात्मनेहितं कार्य करोति येन तावत् कार्यतयोपदिश्यते इत्यर्थः । अत्राचार्यः समाधते;
रागद्वेषद्वयीदीर्घनेत्राकर्षणकर्मणा।
अज्ञानात्सुचिरं जीवः संसाराब्धौ भ्रमत्यसौ ॥११॥ भ्रमति संसरति । कोऽसौ, असौ जीवश्चेतनः । क्क, संसाराब्धौं संसारः द्रव्यपरिवर्तनादिरूपो भवोऽब्धिः समुद्र इव दुःखहेतुत्वाद्दुस्तरत्त्वाञ्च तास्मन् । कस्मात्, अज्ञानात् देहादिष्वात्मविभ्रमात् । कियत्कालं, सुचिरं अतिदीर्घकालं । केन, रागेत्यादि । राग इष्टे वस्तुनि प्रीतिः द्वेषश्चानिष्टेड प्रीतिस्तयोदयी । रागद्वेषयोः शक्तिव्यक्तिरूपतया युगपत् प्रवृत्तिज्ञापनार्थ यीग्रहणं, शेषदोषाणां च तद्द्वयप्रतिबद्धत्वबोधनार्थ । तथा चोक्तम्
यत्र रागः पदं धत्ते द्वेषस्तति निश्चयः।
उभावेतौ समालंब्य विक्रमत्याधिकं मनः ॥" १ अयुक्तं । २ अविचार्यकार्यकर्ता । ३ पंडितेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org