________________
इष्टोपदेशः।
३३
अपि च । आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ अनयोः संप्रतिबद्धाः सर्वे दोषाश्च जायते । सा दीर्घनेत्रमायतमंथाकर्षणपाश इव भ्रमणहेतुत्वात्तस्यापकर्षणकर्मजीवस्य रागादिरूपतया परिणमनं नेत्रस्यापकर्षणत्वाभिमुखानयनं तेन अत्रोपमानभूतो मंथदंड आक्षेप्यस्तेन यथा नेत्रापकर्षणव्यापार मंथाचलः समुद्रे सुचिरं भ्रांतो लोके प्रसिद्ध. स्तथा स्वपरविवेकानवबोधात् । यदुद्भूतेन रागादिपरिणामेन कारणकार्योपचारात्तजनितकर्मबंधेन संसारस्थो जीवो अनादिकालं संसारे भ्रांतो भ्रमति भ्रमिष्यति । भ्रमतीत्यवतिष्टते पर्वता इत्यादिवत् नित्यप्रवृत्ते लटी विधानात् । उक्तं च ।
“जो खलु संसारत्थो जीवो तत्तो दु होदि परिणामो । परिणामादो कम्मं कम्मादो हवदि गदि सुगदी ॥ १॥ गदिमधिगदस्स देहो देहादो इंदियाणि जायंति । तेहि दु विसयग्गहणं तत्तो रागो व दोसो वा ॥ २॥ जायदि जीवस्सेवं भावो संसारचक्कवालंमि ।
इदि जिणवरेहि भणिअं अणाइणिहसण्णि हण्णे वा ।” ॥३॥ अथ प्रतिपाद्यः पर्यनुयुक्ते । तस्मिन्नपि यदि सुखी स्यात् को दोष इति भगवन् संसारेपि न केवलं मोक्ष इत्यपि शब्दार्थः । चेज्जीवः सुखयुक्तो भवेत् तर्हि को न कश्चित् दोषो दुष्टत्वं संसारस्य सर्वेषां सुखस्यैव आप्तुमिष्टत्वात् येन संसारच्छेदाय संतो यतेन्नित्यत्राह । वत्स !
विपद्भवपदावर्ते पदिके वातिबाह्यते ।
यावत्तावद्भवंत्यन्याः प्रचुरा विपदः पुरः ॥ १२ ॥ यावदतिबाह्यते अतिक्रम्यते । प्रेर्यते । कासौ, विपत् सहजशारीरमानसा१ वर्तमानात् २ शिष्यः पृच्छति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org