________________
३४
श्रीमत्पूज्यपादस्वामिविरचितः
गंतुकानामापदां मध्ये या काप्येका विवक्षिता आपत् । जीवेनेति शेषः । क, भवपदावर्ते भवः संसारः पदावर्त इव पादचाल्यघटीयंत्रमिव भूयोभूयो परिवर्तमानत्वात् । केव, पदिकेवे पादाक्रांतदंडिका यथा तावद्भवन्ति । का, अन्या अपूर्वी प्रचुरा बह्यो विपदः आपदः पुरो अग्रे जीवस्य यदि । का इव, काछिकस्येति सामर्थ्यदुा । अतो जानीहि दुःखैकनिबंधनविपत्तिनिरंतरत्वात् संसार अवश्यविनाश्यत्त्वम् ।
पुनः शिष्य एवाह । न सर्वे विपद्वन्तः ससंपदोपि दृश्यंत इति भगवन् समस्ता अपि संसारिणो न विपत्तियुक्ताः सन्ति सश्रीकाणामपि केषां चित् दृश्यमानत्वादित्यत्राह:
दुर]नासुरक्षेण नश्वरेण धनादिना।
स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ॥ १३ ॥ भवति । कोसौ, जनो लोकः । किंविशिष्टः, कोपि निर्विवेको न सर्वः । किंविशिष्टो भवति, स्वस्थमन्यः स्वस्थमात्मानं मन्यमानो अहं सुखीति मन्यत इत्यर्थः । केन कृत्वा, धनादिना द्रव्यकामिन्यादीष्टवस्तुजातेन । किंविशिष्टेन, दुर्गेण अपायबहुलत्वाद् दुर्ध्यानावेशाच्च दुःखेन महता कष्टेनार्जित इति दुर्जेण तथा असुरक्षेण दुस्त्राणेन यत्ततो रक्षमाणस्याप्यपायस्यावश्यभावित्वात् । तथा नश्वरेण रक्षमाणस्यापि विनाशसंभवादशाश्वतेन । अत्र दृष्टांतमाह। ज्वरेत्यादि । इव शब्दो यथार्थे यथा कोऽपि मुग्धो ज्वरवान् अतिशयेन मतेर्विनाशात् सामज्वरातः सर्पिषा घृतेन पानाद्युपयुक्तेन स्वस्थंमन्यो भवति । निरामयमात्मानं मन्यते ततो बुद्धयस्व दुरुपायंदूरक्षणभंगुरद्रव्यादिना दुःखमेव स्यात् । उक्तं च
" अर्थस्योपार्जने दुःखमर्जितस्य च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थ दुःखभाजनम् ॥" १ आकस्मिकागत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org