________________
इष्टोपदेशः।
"भूयोपि विनेयः पृच्छति ।" एवंविधां संपदां कथं न त्यजतीति । अनेन दुरर्जत्वादिप्रकारेण लोकद्वयेऽपि दुःखदां धनादिसंपत्तिं कथं न मुंचति जनः । कथमिति विस्मयगर्ने प्रश्ने । अत्र गुरुरुत्तरमाह;
विपत्तिमात्मनो मूढः परेषामिव नेक्षते ।
दह्यमानमृगाकीर्णवनांतरतरुस्थवत् ॥ १४॥ नेक्षते न पश्यति । कोऽसौ, मूढो धनाद्यासक्त्या लुप्तविवेको लोकः । कां, विपत्तिं चौरादिना क्रियमाणां धनापहाराघापदां । कस्य, आत्मनः स्वस्य। केषामित्र, परेषामिव यथा इमे विपदा आक्रम्यन्ते तथाहमप्याकंतव्य इति न विवेचयतीत्यर्थः । क इव, प्रदह्यमानैः दावानलज्वालादिभिर्भस्मीक्रियमाणैर्मृगैर्हरिणादिभिराकीर्णस्य संकुलस्य बनस्यांतरे मध्ये वर्तमानं । स तरुं वृक्षमारूढो जनो यथा आत्मनो मृगाणामिव विपत्तिं न पश्यति । __ पुनराह शिष्यः कुत एतदिति, भगवन् कस्माद्धेतोरिदं सन्निहिताया अपि विपदो अदर्शनं जनस्य । गुरुराह । लोभादिति, वत्स धनादिगार्ध्यायुरोवर्तिनीमप्यापदं धनिनो न पश्यति । यतः--
आयुर्वृद्धिक्षयोत्कर्षहेतुं कालस्य निर्गमं ।
वांछतां धनिनामिष्टं जीवितात्सुतरां धनं ॥१५॥ वर्त्तते । किं तद्धनं । किंविशिष्टं, इष्टमभिमतं । कथं, सुतरां अतिशयेन कस्माज्जीवितात्प्राणेभ्यः । केषां, धनिनां । किं कुर्वतां, वांछतां । कं, निर्गमं अतिशयेन गमनं । कस्य, कालस्य । किंविशिष्टं, आयुरित्यादि । आयुः क्षयस्य वृद्ध्युत्कर्षस्य च कालांतरवर्द्धनस्य कारणम्, अयमों, धनिनां तथा जीवितव्यं नेष्टं यथा धनं । कथमन्यथा जीवितक्षयकारणमपि धनवद्धिहेतं कालनिर्गमं वांछंति । अतो धिग्धनम्' एवंविधव्यामोहहेतुत्वात् ।
अत्राह शिष्यः । कथं धनं नियं येन पुण्यमुपायते इति पात्रदानदे१ अग्रतः स्थितामपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org