________________
श्रीमत्पूज्यपादस्वामिविरचितः
वार्चनादिक्रियायाः पुण्यहेतोर्धनं विना असंभवात् पुण्यसाधनं धनं कथं निंद्यं किं तर्हि प्रशस्यमेवातो यथा कथंचिद्धनमुपार्ज्य पात्रादौ च नियुज्य सुखाय पुण्यमुपाज्र्जनीयमित्यत्राह; -
"
त्यागाय श्रेयसे वित्तमवित्तः संचिनोति यः । स्वशरीरं स पंकेन स्नास्यामीति विलंपति ॥ १६ ॥ योऽवित्तो निर्धनः सन् संचिनोति सेवाकृष्यादिकर्मणोपार्जयति । किं तद्वित्तं धनं । कस्मै त्यागाय पात्रदानदेवपूजाद्यर्थं त्यागायेत्यस्य देवपूजायुपलक्षणार्थत्वात् । कस्मै त्यागः, श्रेयसे अपूर्वपुण्याय पूर्वोपात्तपापक्षयाय । यस्य तु चक्रवर्त्यादेरिवायत्नेन धनं सिध्यति सः न श्रेयोऽर्थे पात्रदानादिकमपि करोत्विति भावः । स किं करोतीत्याह-विलंपति विलेपनं करोति । कोऽसौ सः किंतत्स्वशरीरं । केन, पंकेन कर्द्दमेन । कथं कृत्वेत्याह । स्नास्यामीति । अयमर्थो, यथा कश्चिन्निर्मलमंगं स्नानं करिष्यामीति पंकेन विलपन्नसमीक्षकारी तथा पापेन धनमुपार्ज्य पात्रदानादिपुण्येन क्षपयिष्यामीति धनार्जने प्रवर्तमानोऽपि । न च शुद्धवृत्त्या कस्यापि धनार्जनं संभवति । तथाचोक्तम
३६
" शुद्वैर्धनै विवर्धते शतामपि न संपदः ।
न हि स्वच्छांबुभिः पूर्णाः कदाचिदपि सिंधवः ॥ १ ।। " पुनराह शिष्यः भोगोपभोगायेति । भगवन् यद्येवं धनार्जनस्य पापप्रायतया दु:खहेतुर्वा धनं निंद्यं तर्हि धनं विना सुखहेतोर्भोगोपभोगस्यासंभवात्तदर्थं धनं स्यादिति प्रशस्यं भविष्यति । भोगो भोजनतांबूलादिः । उपभोगो वस्तुकामिन्यादिः । भोगाश्चोपभोगाच भोगोपभोगं तस्मै । अत्राह गुरुः । तदपि नेति न केवलं पुण्यहेतुतया धनं प्रशस्यमिति यत्त्वयोक्तं तदुक्तरीत्या न स्यात् । किं तर्हि भोगोपभोगार्थं तत्साधनं प्रशस्यमिति । यत्त्वया संप्रत्युच्यते तदपि न स्यात् । कुत इति चेत्, यतः ।
१ अविचारित कार्यकारी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org