SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः। ३७ आरंभे तापकान्प्राप्तावतृप्तिप्रतिपादकान् । अंते सुदुस्त्यजान कामान् कामं कः सेवते सुधीः ॥ १७ ॥ को, न कश्चित् सुधीविद्वान सेवते इंद्रियप्रणालिकयानुभवति । कान्, भोगोपभोगान् । उक्तं च__ " तदात्त्वेसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते । हितमेवानुरुध्यते प्रपरीक्ष्य परीक्षकाः । " कथंभूतान, तापकान् देहेंद्रियमनःक्लेशहेतून् । क, आरंभे उत्पत्त्युपक्रमे । अन्नादिभोग्यद्रव्य-संपादनस्य कृष्यादिक्लेशबहुतया सर्वजनसुप्रसिद्धत्वात् । तर्हि भुज्यमानाः कामाः सुखहेतवः संभूतिसेव्यास्ते इत्याह, प्राप्तावित्यादि । प्राप्तो इंद्रियेण संबंधे सति अतृप्तेः सुतृष्णायाः प्रतिपादकान् दायकान् । उक्तं च “ अपि संकल्पिताः कामाः संभवंति यथा यथा । तथा तथा मनुष्याणां तृष्णा विश्वं विसर्पति ॥" तर्हि यथेष्ट भुक्त्वा तृप्तेषु तेषु तृष्णासंतापः साम्यतीति सेव्यास्ते इत्याह । अंते सुदुस्त्यजान भुक्तिप्रांते त्यक्तुमशक्यकान् । सुभुक्तेष्वपि तेषु मनोव्यतिषंगस्य दुर्निवारत्वात् । उक्तं च " दहनस्तृणकाष्ठसंचयैरपि तृप्येदुदधिर्नदीशतैः । ननु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः ॥ अपि चकिमपीदं विषयमयं विषमतिविषमं पुमानयं येन । प्रसभमनुभूय मनो भवे भवे नैव चेतयते ॥" ननु तत्त्वविदोपि भोगानभुक्तवंतो न श्रूयंत इति कामान् कः सेवते १ तत्कालं । २ उत्पत्ति ३ । संबंधस्य । ४ बलात्कारेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy