SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीमत्पूज्यपादस्वामिविरचितः सुधीरित्युपदेशः कथं श्रद्धीयत इत्याह । काममिति । अत्यर्थ । इदमत्र तात्पर्य चारित्रमोहोदयात् भोगान् त्यक्तुमशक्नुवन्नपि तत्त्वज्ञा हेयरूपतया कामान्पश्यन्नेव सेवतं मंदीभवन्मोहोदयस्तु ज्ञानवैराग्यभावनया करणग्रामं संयम्य सहसा स्वकार्यायोत्सहत एव । तथाचोक्तम् ३८ इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोयमनुषंगजं फलमिदं दशेयं मम । अयं सुहृदयं द्विषन् प्रयतिदेशकालाविमाविति प्रतिवितर्कयन् प्रय तते बुधो नेतरः । किंच यदर्थमेतदेवंविधमिति । भद्र यत्कायलक्षणं वस्तुसंतापाद्युपेतं कर्तुं कामस्त्वया प्रार्थ्यते तद्वक्ष्यमाणलक्षणमित्यर्थः । स एवंविध इति पाठः । तद्यथा भवंति प्राप्य यत्संगमशुचीनि शुचीन्यपि । स कायः संततापायस्तदर्थं प्रार्थना वृथा ॥ १८ ॥ वर्तते । कोऽसौ सः कायः शरीरं । किंविशिष्टं, संततापाय: नित्यक्षुधाद्युपतापः । स क, इत्याह । यत्संगे येन कायेन सह संबंधं प्राप्य लब्ध्वा शुचीन्यपि पवित्ररम्याण्यपि भोजन वस्त्रादिवस्तून्यशुचीनि भवंति यतश्चैवं ततस्तदर्थं तं संततापायं कार्यं शुचिवस्तुभिरुपकर्तुं प्रार्थना आकांक्षा तेषामेव वृथा व्यथ केनचिदुपायेन निवारितेऽपि एकस्मिन्नपाये क्षणे क्षणे परापरापायोपनिपातसंभवात् । पुनरप्याह शिष्यः । तर्हि धनादिनाप्यात्मोपकारो भविष्यतीति । भगवन् संततापायतया कायस्य धनादिना यद्युपकारो न स्यात्तर्हि धनादिनापि न केवलमनशनादितपश्चरणनत्येपि शब्दार्थः । आत्मनो जीवस्योपकारोऽ नुग्रहो भविष्यतीत्यर्थः । गुरुराह तन्नेति । यत्त्वया धनादिना आत्मोपकारभवनं संभाव्यंते तन्नास्ति यतः ―― यज्जीवस्योपकाराय तद्देहस्यापकारकं । यद्देहस्योपकाराय तज्जीवस्यापकारकं ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy