________________
इष्टोपदेशः।
३९
__ यदनशनादि तपोऽनुष्ठानं जीवस्य पूर्वापूर्वपापक्षपणनिवारणाभ्यामुपकाराय स्यात्तद्देहस्यापकारकं ग्लान्यादिनिमित्तत्वात् । यत्पुनर्धनादिकं देहस्य भोजनायुपयोगेन क्षुधायुपतापक्षयत्वादुपकाराय स्यात्तज्जीवस्योपार्जनादौ पापजनकत्वेन दुर्गतिः दुःखनिमित्तत्वादपकारकं स्यादतो जानीहि जीवस्य धनादिना नोपकारंगधोप्यस्ति धर्मस्यैव तदुपकारत्वात् । ___ अत्राह शिष्यः । तर्हि कायस्योपकारश्चिंत्यते इति भगवन् यद्येवं तर्हि " शरीरमायं खलु धर्मसाधनम् ” इत्यभिधानात्तस्यापीयनिरासाय यत्नः क्रियते न च कायस्यापायनिरासो दुःकर इति वाच्यम् । ध्यानेन तस्यापि सुकरत्वात् । तथाचोक्तम्
" यदा त्रिकं फलं किंचित्फलमामुत्रिकं च यत् ।
एतस्य द्विगुणस्यापि ध्यानमेवाग्रकारणम् ॥" झाणस्य ण दुल्लहं किंपीति च-अत्र गुरुःप्रतिषेधमाह तन्नेति । ध्यानेन कायस्योपकारो न चिंत्य इत्यर्थः ।
इतश्चिन्तामणिर्दिव्य इतः पिण्याकखंडकं । ध्यानेन चेदुभे लभ्ये क्वाद्रियंतां विवेकिनः ॥ २०॥ अस्ति । कोऽसौ, चिन्तामणिः चिंतितार्थप्रदो रत्नविशेषः । किंविशिष्टो, दिव्यो देवेनाधिष्ठितः । क, इत अस्मिन्नेकस्मिन् पक्षे इतश्चान्यस्मिन् पक्षे पिण्याकखण्डकं कुत्सितमल्पं वा खलखंडकमस्ति एते च उभे द्वे अपि यदि ध्यानेन लभ्येते अवश्यं लभ्येते तर्हि कथय क द्वयोर्मध्ये कतरस्मिन्नेकस्मिन् विवेकिनो लोभच्छेदविचारचतुरा आद्रियंतां आदरं कुर्वन्तु । तदैहिकफलाभिलाषं त्यक्त्वा आमुत्रिक फलसिद्ध्यर्थमेवात्मा ध्यातव्यः । उक्तं च
१ रोगाद्युपविनाशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org