________________
श्रीमत्पूज्यपादस्वामिविरचितः
" तद्ध्यानं रौद्रमार्त्त वा यदेहिकफलार्थिनां । तस्मादेतत्परित्यज्य धर्म्यं शुक्लमुपास्यताम् ॥
"
अथैवमुद्बोधितश्रद्दधानो विनेयः पृच्छति स आत्मा कीदृश इति यो युष्माभिर्थ्यातव्यतयोपदिष्टः पुमान् स किं स्वरूप इत्यर्थः गुरुराह; -
80
स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्ययः ।
अत्यंत सौख्यवानात्मा लोकालोकविलोकनः ॥ २१ ॥
अस्ति । कोऽसौ, आत्मा । कीदृशः, लोकालोकविलोकनः लोको जीवाद्याकीर्णमाकाशं ततोऽन्यदलोकः तौ विशेषेण अशेषविशेषनिष्ठतया लोक्यते पश्यति जानाति । एतेन "ज्ञानशून्यं चैतन्यमात्रमात्मा" इति सांख्यमतं बुद्धधादिगुणेोज्झितः पुमानिति योगमतं च प्रत्युक्तं । प्रतिध्वस्तश्व नैरात्म्यैवादो बौद्धानां । पुनः कीदृशः, अत्यंत सौख्यवान् अनंत सुखस्वभाव: एतेन सांख्ययोगतंत्रं प्रत्याहतं । पुनरपि कीदृशस्तनुमात्र: स्वोपात्तशरीरपरिमाणः । एतेन व्यापकं वटकणिकामात्रं चात्मानं वदंतौ प्रत्याख्यातौ । पुनरपि कीदृशः, निरत्ययः द्रव्यरूपतया नित्यः । एतेन गर्भादिमरणपर्यन्तं जीवं प्रतिजानानश्चार्वाको निराकृतः । ननु प्रमाणसिद्धे वस्तुन्येवं गुणवादः श्रेयान्न चात्मनस्तथा प्रमाणसिद्धत्त्वमस्तत्यिारे कायामाह । स्वसंवेदनव्यक्त इति ।
" वेद्यत्वं वेदकत्वं च यत्स्वस्य स्वेन योगिनः । तत्स्वसंवेदनं प्राहुरात्मनोऽनुभवं दृशम् । "
इत्येवंलक्षणस्वसंवेदन प्रत्यक्षेण सकलप्रमाणधुर्येण सुष्ठु उक्तैश्व गुणैः संपूर्णतया व्यक्तः विशदतयानुभूतो योगिभिः स्वेकदेशेन ।
अत्राह शिष्यः यद्येवमात्मास्ति तस्योपास्तिः कथमिति स्पष्टम् आत्मसे.. वोपायप्रश्नोऽयम् । गुरुराह—
१ परिपूर्णतया । २ अभावात्मको मोक्षः ३ ब्रुवन् । ४ प्रमाणेन । ५ मुख्येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org