________________
इष्टोपदेशः।
संयम्य करणग्राममेकाग्रत्वेन चेतसः ।
आत्मानमात्मवान्ध्यायेदात्मनैवात्मनि स्थितं ॥ २२ ॥ ध्यायेत् । भावयेत् कोऽसौ, आत्मवान् गुप्तेंद्रियमना ध्यस्तस्वायत्तवृत्तिर्वा । कं, आत्मानं यथोक्तस्वभावं पुरुषं । केन, आत्मनैव स्वसंवेदनरूपेण स्वेनैव तज्ज्ञप्तौ करणांतराभावात्, उक्तं च
" स्वपरज्ञप्तिरूपत्वात् न तस्य करणांतरम् । ततश्चिंता परित्यज्य स्वसंवित्त्यैव वेद्यताम् ॥ ॥ २ ॥ क्क तिष्ठतमित्याह, आत्मनि स्थितं वस्तुतः सर्वभावानां स्वरूपमात्राधारत्वात् । किं, कृत्वा संयम्य रूपादिभ्यो व्यावृत्य ।किं, करणग्रामं चक्षुरादींद्रियगणं । केनोपायेन, एकाग्रत्वेनं एके विवक्षितमात्मानं तं द्रव्यं पर्यायो वा अयं प्राधान्येनालंबनं विषयो यस्य अथवा एकं पूर्वापरपर्यायाऽनुस्यूतं अग्रमात्मग्राह्यं यस्य तदेकाग्रं तद्भावेन। कस्य, चेतसो मनसः । अयमों यत्र क्वचिदात्मन्येव वा श्रुतज्ञानावष्टंभात् आलंबितेन मनसा इंद्रियाणि निरुद्धय स्वात्मानं च भावयित्वा तत्रैकाग्रतामासाद्य चिंतां त्यक्त्वा स्वसंवेदनेनैवात्मानमनुभवेत् । उक्तं च
“ गहियं तं सुअणाणा पच्छा संवेयणेण भाविज्जा।
जो ण हु सुवमवलंवइ सो मुज्झइ अप्पसब्भावो ॥ ३॥" तथा च
“प्रच्याव्य विषयेभ्याऽहं मां मयैव मयि स्थितं ।
बोधात्मानं प्रपन्नोऽस्मि परमानंदनिर्वृतम् ॥ ४॥" अथाह शिष्यः आत्मोपासनया किमिति भगवान्नात्मसेवनया किं प्रयोजनं स्यात् फलप्रतिपत्तिपूर्वकत्वात्प्रेक्षावत्प्रवृत्तरिति पृष्टः सन्नाचष्टे;१ अविच्छिन्नं प्रवर्तमानं। २ ज्ञानं । ३ श्रृणु इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org