SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीमत्पूज्यपादस्वामिविरचितः अज्ञानोपास्तिरज्ञानं ज्ञानं ज्ञानिसमाश्रयः । ददाति यत्तु यस्यास्ति सुप्रसिद्धमिदं वचः ॥ २३॥ ददाति । कासौ, अज्ञानस्य देहादेमूढभ्रांतिः संदिग्धगुर्वादेर्वा उपास्तिः सेवा । किं अज्ञानं, मोहभ्रमसंदेहलक्षणं तथा ददाति । कासौ, ज्ञानिनः स्वभावस्यात्मनो ज्ञानसंपन्नगुर्वादेर्वा समाश्रयः । अनन्यपरया सेवनं । किं, ज्ञानं स्वार्थावबोधं । उक्तं च, ज्ञानमेव फलं ज्ञाने ननु श्लाघ्यमनश्वरम् । अहो मोहस्य माहात्म्यमन्यदप्यत्र मृग्यते ॥ को अत्र दृष्टांत इत्याह यदित्यादि ददातीत्यत्रापि योज्यं ‘तुरवधारणे तेनायमर्थः संपद्यते । यद्येव यस्य स्वाधीनं विद्यते स सेव्यमान तदेव ददातीत्येतद्वाक्यं लोके सुप्रतीतमतो भद्र ज्ञानिनमुपास्य समुल्लंभितस्वपरविवेकज्योतिरजस्रमात्मानमत्मानामात्मनि सेव्यश्च । अत्राप्याह शिष्यः । ज्ञानिनोध्यात्मस्वस्थस्य किं भवतीति निष्पन्नयोग्यपेक्षया स्वात्मध्यानफलप्रश्नोयम् । गुरुराह;-- परीषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायतेऽध्यात्मयोगेन कर्मणामाशु निर्जरा ॥ २४ ॥ जायते भवति । कासौ, निर्जरा एकदेशेन संक्षयो विश्लेष इत्यर्थः । केषां, कर्मणां सिद्धयोग्यपेक्षयाऽशुभानां च शुभानां साध्ययोग्यपेक्षया त्वसवेद्यादीनां । कथमाशु सयः । केन, अध्यात्मयोगेन आत्मन्यात्मनः प्रणिधानेन, किं केवला, नेत्याह निरोधिनी प्रतिषेधयुक्ता कस्यास्रवस्यागमनस्य कर्मणामि-- त्यत्रापि योज्यं । कुत इत्याह, परीषहाणां क्षुधादिदुःखभेदानामादिशब्दा देवादिकृतोपसर्गबाधानां चाविज्ञानादसंवेदनात् । तथा चोक्तम् “ यस्य पुण्यं च पापं च निःफलं गलति स्वयम् । स योगी तस्य निर्वाणं न तस्य पुनरास्रवः" ॥ १ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy