________________
इष्टोपदेशः।
तथा च
“ तथा ह्यचरमांगस्य ध्यानमभ्यस्यतः सदा । निर्जरा संवरश्चास्य सकलाशुभकर्मणां" ॥२॥ अपि च
“ आत्मदेहांतरज्ञानजीनताल्हादनिर्वृतः । तपसा दुःकृतं घोरं भुंजानोऽपि न खिद्यते " ॥ ३॥ एतच्च व्यवहारनयादुच्यते । कुत इत्याशंकायां पुनराचार्य एवाह सा खलु कर्मणो भवति तस्य संबंधस्तदा कथमिति । वत्स आकर्णय खलु यस्मात्सा एकदेशेन विश्लेषलक्षणा निर्जरा कर्मणः चित्सामान्यानुविधायिपुद्गलपरिणामरूपस्य द्रव्यकर्मणः संबंधिनी संभवति द्रव्ययोरेव संयोगपूर्वविभागसंभवात् तस्य च द्रव्यकर्मणस्तदा योगिनः स्वरूपमात्रावस्थानकाले संबंधः प्रत्यासत्तिरात्मना सह । कथं केन संयोगादिप्रकारेण संभवति सूक्ष्मक्षिकया समीक्ष्यस्व न कथमपि संभवतीत्यर्थः । यदा खल्वात्मैव ध्यानं ध्येयं च स्यात्तदा सर्वात्मनाप्यात्मनः परद्रव्याद् व्यावृत्य स्वरूपमात्रावस्थितत्वात्कथं द्रव्यांतरेण संबंधः स्यात्तस्य द्विष्ठत्वात् । न चैतत्संसारिणो न संभवतीति वाच्यं । संसारतीरप्राप्तस्यायोगिनो मुक्तात्मवत्पंच ह्रस्वस्वरोच्चारणकालं यावत्तथावस्थानसंभवात् कर्मक्षपणाभिमुखस्य लक्षणोत्कृष्टशुक्ललेश्यासंस्कारावेशवशात्तावन्मात्रकर्मपारतंत्रव्यवहरणात् । तथा चोक्तं परमागमे
“ सीलेसिं संपत्तो णिरुद्धणिस्सेसआसवो जीवो।
कम्मरयविप्पमुक्को गयजोगो केवली होदि ॥” . श्रूयतां चास्यैवार्थस्य संग्रहश्लोकः ।
कटस्य कर्ताहमिति संबंधः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदात्मैव संबंधः कीदृशस्तदा ॥ २५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org