________________
४४
श्रीमत्पूज्यपादस्वामिविरचितः
स्याद् भवेत् । कोसौ, संबंधः द्रव्यादिना प्रत्यासत्तिः । कयोर्द्वयोः कथंचिद्भिन्नयोः पदार्थयोः इति अनेन लोकप्रसिद्धेन प्रकारेण कथमिति यथाहमस्मि । कीदृशः, कर्ती निर्माता । कस्य, कटस्य वंशदलानां जलादिप्रतिवंधाद्यर्थस्य परिणामस्य । एवं संबंधस्य द्विष्ठतां प्रदर्श्य प्रकृतेर्व्यतिरेकमाह । ध्यानमित्यादि ध्यायते येन ध्यायति वा यस्तळ्यानं ध्यातिक्रियां प्रति करणं कर्ता वा । उक्तंच;
“ ध्यायते येन तद्ध्यानं यो ध्यायति स एव वा।" ध्यायत इति ध्येयं चाध्याति क्रिययाध्याप्यं । यदा यस्मिन्नात्मनः परमात्मना सहकीकरणकाले आत्मैव चिन्मात्रमेव स्यात्तदा कीदृशः संयोगादिप्रकारः संबंधो द्रव्यकर्मणा सहात्मनः स्यात् येन जायतेध्यात्मयोगेन कर्मणामाशु नि रेति परमार्थतः कथ्यते । अत्राह शिष्यः--तर्हि कथं बंधस्तत्प्रतिपक्षश्च मोक्ष इति भगवन् यद्यात्मकर्मद्रव्ययोरध्यात्मयोगेन विश्लेषः क्रियते तर्हि कथं केनोपायप्रकारेण तयोर्बधः परस्परप्रदेशानुप्रवेशलक्षणः संश्लेषः स्यात् । तत्पूर्वकत्वाद्विश्लेषस्य कथं च तत्प्रतिपक्षो बंधविरोधी मोक्षः सकलकर्मविश्लषलक्षणो जीवस्य स्यात्तस्यैवानंतरसुखहेतुत्वेन योगिभिः प्रार्थनीयत्वात् । गुरुराह
बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् । ___ तस्मात्सर्वप्रयत्नेन निममत्वं विचिंतयेत् ॥ २६ ॥ ममेत्यव्ययं ममेदमित्यभिनिवेशार्थमव्ययानामनेकार्थत्वात् तेन सममो ममेदमित्यभिनिवेशाविष्टो अहमस्येत्यभिनिवेशाविष्टश्चोपलक्षणत्वात् जीव: कर्मभिर्बध्यते । तथा चोक्तम्
"न कर्मबहुलं जगन्न चलनात्मकं कर्म वा।
न चापि करणानि वा न चिदचिद्वधो बंधकृत् ॥" यदैक्यमुपयोगभूसमुपरौ अतिरागादिभिः स एव किल केवलं भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org